अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2525, कुल 2600 में से
संदर्भ में पढ़ेंपदवाच्याद् दृढानन्दः कृष्णात्मा सदानन्दसविकल्पकज्ञानरूपः तावतीं मायां दूरीकृत्य प्रादुर्भवति तत्र आत्मस्वरूपं यस्य शृङ्गारस्य । प्रकृते पूर्वोक्तोऽयमेव विभावने व्यञ्जनया विभावपदवाच्यमुक्त- मुमुक्षुरूपोद्दीपनविभावरूपभक्तानां मनोन्तर्लीनरत्यादेरीषत्प्रकाशः अनुभावनेनानुभावपदवाच्यकटाक्ष- भुजक्षेपादिभिः स्फुटतरं प्रकाशमाहुः । भावेति अनुभावनं तथाभूतस्य रत्यादेरास्वादाङ्कुरयोग्यता- नयनमनेन व्यापारेणानुभवपदवाच्यकटाक्षभुजक्षेपादिभिः भक्तानां मनोन्तर्लीनरत्यादेः भावा अङ्कुरा आत्मनि यस्य शृङ्गारस्य, यद्वा स्फुटतरः प्रकाशः । इत्थं च कृष्णात्मकस्य भावैरनुभावैर्यैयेष्टाङ्कुरं स्वाद्यरूपाङ्कुरं आत्मा स्वरूपं विभावात्मकं यस्य । समासान्तः कप् । भावपदं प्रेमाणमन्तरेण न किञ्चिल्लीलास्यमित्यसुसूचत् । उद्यानाद्युद्दीपनविभावानुवादवत् सञ्चारिणामनुवादः । सहकरणेन व्यापारेण तथाभूतस्य रसास्वादाङ्कुरप्रादुर्भावनरूपेण सहकारिपदवाच्यवैराग्यग्लानिशङ्काहर्षदैन्य- चिन्तास्मृतिधृतिब्रीडाचपलताहर्षवेगजडतागर्वविषादौत्सुक्यमनिवितर्कादिभी रत्यादिसामग्रीवैचित्र्या- पादकैः स्फुटतमः प्रकाशो भक्तानां मनोन्तर्लीनरत्यादेः कृष्णात्मकस्य । तदर्थं विशेषणमाहुः अनि- रिति । 'यतो वाच' इति श्रुत्युक्तोऽनिर्व्वाच्यानन्दपदेन रूप्यते यः स आनन्दस्तस्यानुभवः साक्षी ज्ञानज्ञेयानामाविर्भावतिरोभावज्ञानात् स्वयमेवाविर्भावतिरोभावहीनः स्वयंज्योतिः स साक्षी- त्युच्यत इति श्रुतेः स्वयं ज्योतिरूपो यस्य कृष्णात्मकस्य स तथोक्तः । समासान्तः कप् । श्रुतिः । 'समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य' इत्यधिकरणे सूत्राणि च । 'स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम' इति गीता । 'अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्त- मेषूत्तमेषु लोकेष्वि'ति श्रुतिः । 'ज्योतिश्चरणाभिधानादि'ति सूत्रम् । काव्यप्रकाशेपि 'लौकिकप्रत्यक्षा- दिप्रमाणतटास्थ्यावबोधशालिपरिमितयोगिज्ञानवेद्यान्तरसंस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमिततरयोगि- संवेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्ययोप्यभिधीयतामिति सार्धश्लोकेनोक्तं स्वरूप- मभ्यर्हितत्वाच्छ्रुतीनां 'मनोरथान्तं श्रुतयो यथा ययु'रिति वाक्यात् । गुर्व्यस्तास्तु दशधा स्त्रीपुरुष- भेदेन विंशतिधाऽतो भक्तमनोरथा अपि विंशतिधेत्यन्येषामप्यधिकारः मनोरथान्तप्राप्तिश्च ॥ ३ ॥ ४ ॥ एवं प्रेमा निरूपितः स न शृङ्गारः । संज्ञाभेदात् । संज्ञाभेदाद्भेदी हि पूर्वतप्रसिद्धः । शृङ्गार इत्यन्ये । परं रसत्वेन प्रेमा विवक्षितः । रसत्वं च शृङ्गारमन्तरेणान्येषु नास्तीति शृङ्गारनिरूपणं प्रतिज्ञातम् । स चापुष्टो रसाभास इति तत्पोषकावाहुः । भावाभासेत्यादि । भावाभासरसाभासौ पोषकौ तस्य सम्मतौ । रसाभासभावाभासा अनौचित्यप्रवर्तिताः । 'तदाभासा अनौचित्यप्रवर्तिता' इति काव्यप्रकाशात् । न च रस एव रसाभासः सकलकारणकारणे अनौचित्यप्रवर्तितत्वादिति वाच्यम् । अनौचित्यप्रवर्तकानामनधिकारात् । साधनचतुष्टयस्य शमदमवैराग्यमुमुक्षुत्वरूपस्य ज्ञानद्वारा भक्त्यु- पयोगः 'शमदमाद्युपेतः स्या'दित्यादिसूत्रभाष्य उक्तत्वाच्च । तथा च वैराग्योत्कर्षः शृङ्गारप्रव- र्तकानां न वैराग्यमात्रं 'उत्कर्षश्चापि वैराग्ये हरेरपि हरियदी'ति वेणुगीतकारिकायाः । 'कामादीतरत्र तत्र चायतनादिभ्य' इति सूत्रे भाष्ये कामस्याविहितभक्तित्वेन निरूपणात् । रसाभासभावाभासा यद्यपि भावं निरूप्य रसं निरूप्य क्रमप्राप्तास्तदाभासा लक्षणीया इति वदन्ति सरस्वतीतीर्थास्तथापि अनुभवसाचिव्यात्पोषकाः क्रमप्राप्ता इत्युक्तं सम्मताविति । पुष्टस्य तस्य रसस्यावस्थाद्वयं पोष्यत्वायाप्याहुः । संयोग इत्यादि । संयोगो विरहश्चापि तस्यावस्थाद्वयं मतम् ॥ ५ ॥