अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2529, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम् । ३३ श्रीकृष्णगोपिकाप्रौढविलासकथयोद्गतम् । रससंयोगभावं हि श्रीकृष्णे साधयेद् ध्रुवम् ॥ ८ ॥ श्रिया सहितस्य सदानन्दस्य ह्याविर्भावाःकलाः वैराग्यसाङ्ख्ययोगतपोभक्तिरूपास्तासां च ये प्रौढाः प्रौढत्वं च सकलदर्शनार्थज्ञानपूर्वकनिर्गुणभक्तिमार्गगूढार्थज्ञानवत्त्वमिति शब्दरत्नात्सिद्ध्यति तादृशा येन केनापि सम्बन्धेन विलासास्तेषां कथया गोपालतापिन्यादिदशमस्कन्धादिनिरूपितया प्रपञ्चविस्मृतिपूर्वकभगवदासक्तिरूपयोद्गतं 'भक्तिरहस्यभजनं तदिहामुत्रफलभोगनैराश्येनामुष्मि- न्मनःकल्पनं' 'ता नाविदन्मय्यनुषङ्गबद्धधिय' इति निरूपितमानसीसेवारूपं रससंयोगभावं रसेन विहिताविहितप्रेमशृङ्गारादिना संयोगभावं सायुज्यमिव वर्तमानं श्रीकृष्णे कृष्णाश्रयं साधयेत्सिद्धं कुर्यात् । कदाचिन्मतिसञ्चारिभावप्र