अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2530, कुल 2600 में से
संदर्भ में पढ़ेंयदीति भाग्यवशेन अत्र निदर्शनमुक्तं शाण्डिल्यर्षिणा 'संयोगे वियोगवृत्तिः प्रेमे'ति सूत्रेण एवं 'वियोगे संयोगवर्तनमपी'ति तद्भाष्ये । निवेदितमिति 'सख्यानन्तरमात्मनिवेदन'मिति सुबोधिन्यां पाठक्रमः 'आत्मनिवेदिनो हि भजनार्हा नेतर' इति नवरत्नटीकायामर्थक्रमः । श्रुतकृताभ्यामात्मनिवेदन- विशेषितत्वाद्वा । सुबोधिन्यां कृतात्मनिवेदिनः । आद्ये स्तुतो रसप्रमेयबलेन पुष्टिभक्तौ, साधनबलेन मर्यादाभक्तौ योग्यं जीवं कुर्यात् । द्वितीये आरम्भदशायां 'धर्मेण पापमपनुदती'ति श्रुतेः पापाभावद्वारा मर्यादाभक्तौ योग्यं जीवं कुर्यात् । तदुक्तं 'प्रदीपवदावेशस्तथा हि दर्शयती'ति सूत्रभाष्ये । 'ननु पूर्णज्ञानक्रियासक्तिमता ब्रह्मणा तुल्यभावेन तत्रापि प्रधानभावं प्राप्य कामभोगकरणमपूर्णज्ञानक्रियावतो भक्तस्यानुपपन्नमित्याशङ्कय तत्प्रपत्तिमाहे'ति, अत्र तुल्यभावेनेति सख्यं, प्रधानभावमिति ह्यात्मनिवे- दनम्, 'भोगमात्रसाम्यलिङ्गाच्चे'ति सूत्रे स्पष्टमिदम् । आत्मनिवेदनानन्तरं विचिकीर्षितो जीवः । 'निवेदितात्मा विचिकीर्षितो म' इति वाक्यम् । श्रुतिस्तु 'भर्ता सन् भ्रियमाणो बिभर्ती'ति । द्वितीयपक्षे तु भजने 'तपोवैराग्ययोगे तु ज्ञानं तस्य फलिष्यती'ति निबन्धाद्यथासङ्गं देहाध्यासेन्द्रि- याध्यासान्तःकरणाध्यासानां आलोचनवैराग्यसा१धनैर्निवृत्तिमिच्छूष्टपन्नाचार्याः 'योगयोगे तथा प्रेमे'त्यनेन कारिकांशेन प्रेमयोगाभ्यां प्राणाध्यासस्वरूपविस्मृत्योर्निवृत्तिम् । सिद्धान्तरहस्ये 'ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः सर्वदोषनिवृत्तिर्हि' इति आत्मनिवेदनस्य योग्यकरणकारणतोक्ता । कृष्ण इत्यादि । कृष्णे निवेदनाज्जीवः कृतकृत्यो भवेदिह । अतः सर्वात्मना कुर्याद्विधित्वेन निवेदनम् ॥ ११ ॥ 'इहैव समवनीयन्ते प्राणा' इति श्रुतेरिह । अतो जीवस्य योग्यत्वात् । सर्वात्मना सर्वपशु- पुत्रेन्द्रियादियुक्तेनात्मनान्तःकरणेन सह जीवः कुर्यात् । अथवा 'यस्मिन्नकृते न कोपि पुरुषार्थः सिध्यति तत्सर्वात्मना कृतमात्मनिवेदनं' सुबोधिन्यामयमर्थः यतः कृतकृत्यताफलमुक्तमतः सर्वेषां पृथिव्यप्तेजोवाय्वाकाशप्रकृतिपुरुषमहत्तत्त्वाहङ्काराणां मध्येऽष्टानां पृथिव्यादीनामात्मा पुरुषान्तर्गतपुरुषः परा काष्ठा तेन हेतुना विधित्वेन आत्मनिवेदनं कुर्यात् । तथा चोक्तं गीतायां 'स सर्वविद्भजति मां सर्वभावेन भारते'त्युक्तवा 'एतद्बुद्ध्वा बुद्धिमान्स्यात् कृतकृत्यश्च भारत' इति । विधित्वेनेति । विधिर्यथा 'ज्योतिष्टोमेन स्वर्गकामो यजेते'त्यादौ लिङर्थः । वाक्यं तु तेन विधिवाक्यमुच्यते, एवं विधित्वमाज्ञानिष्ठमपि आज्ञाघटितार्थरूपात्मनिवेदन उच्यते एवमेव पूर्वमीमांसकानां व्यवहारः । 'इमे विदेहा अयमहमस्मी'ति बृहदारण्यके जनकात्मनिवेदनवाक्यम् । 'इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् । दारान्सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम्' इत्येकादशे वाक्यम् । अत्र शिष्येदित्यनेनानुक्तेनान्वयात्परस्मै इष्टायभिन्नं निवेदनं यत् तत्कर्मकशिक्षानुकूलकृतिविषयिण्या भाज्ञायाः प्रतीतिः । अत्र पदार्थसमूहरूपवाक्यार्थैकदेशज्ञानानुकूलपर्वसु सुखसंवेदनरूपा रतिश्चेतस्त- न्प्रवणास्यमानसीसेवारूपभावरूपाङ्कुरमितीति शृङ्गारलक्षणवाक्योक्तस्त्रीपुंभावात्मकत्वं जीवानां भक्षरत्वादस्त्येव भावादुराथः । यद्वा भावैरनुभावैरित्यादिना पूर्वमुक्तो यः स तथानिष्ठं विधित्वमात्म- निवेदने आरोप्यते । छत्रणो यान्तीतिवत् । अथवा विधीयते यत् स विधिः 'उपसर्गे घोः कि'रात्म- निवेदनं पूर्वश्रुतिस्मृत्योरात्मनिवेदनशिक्षावाचकलिङ्गादि विधीयते इति प्रत्ययात् । अत्र सूत्रं साधनाध्याये 'अनियमः सर्वसामविरोधाः शब्दानुमानाभ्या'मिति । श्रुतिस्तु 'परं ब्रह्म पतद् यो १. प्रवेशे । 2392