सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2531, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2531

धारयति रसति भजति ध्यायति' इत्यादि । गीताविस्तारस्तु 'केवलेन हि भावेन गोप्यो गावः खगा मृगाः । येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा' । गीता तु त्रयोदशाध्याये 'मयि चानन्य- योगेन भक्तिरव्यभिचारिणी' । पुरुषोत्तमयोगाध्याये 'स सर्वविद्भजति मां सर्वभावेन भारत' 'इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारते'ति च । भक्तिमार्गविषयं निष्कर्षन्तः फलाय साधननिष्कर्षमाहुः श्रृङ्ग इति द्वयेन । श्रृङ्गो भावाङ्कुरः प्रोक्तः शृङ्गारस्तद्गतो रसः । स वै कृष्णात्मको ज्ञेयः श्रुतिवाक्यानुसारतः ॥ १२ ॥ समर्प्य तत्र सर्वं हि दृढविश्वासतो भजन् । ऐहिके पारलोके च चिन्तां त्यक्त्वा सुखी भव ॥ १३ ॥ 'भावाङ्कुरः चेतस्तत्प्रवणाख्यो भावः प्रेमा तस्याङ्कुर आस्वादयोग्यः श्रृङ्गः प्रभुत्वाद् भगवत्प्रापकत्वात् । ज्ञानस्याक्षरब्रह्मप्रापकत्वात् 'शृङ्गं प्रभुत्वे शिखरे चिह्ने' इति विश्वः । प्रोक्तः ब्राह्मणेन भगवता प्रोक्तः श्रीशुकैः प्रोक्तः व्रजभक्तैः प्रोक्तः । भक्तिरहस्यभजनमित्यादिगोपालतापनीये । 'तस्माद्भारत सर्वात्मा भगवानि'ति द्वितीयस्कन्धे 'कुर्वन्ति हि त्वयि रतिं'मिति फलप्रकरणे प्रोक्तः । तद्गतः प्रेमास्वादगतः रस आनन्दमयः शृङ्गार इत्यर्थः । शृङ्गं भावाङ्कुरमियर्तीति शृङ्गार इति व्युत्पत्तेः । शृङ्गञ्च शृङ्गश्च शृङ्गौ तौ इयर्तीति शृङ्गार इति व्युत्पत्तिरपि शृङ्गारपदस्य । यद्वा शृङ्गगतः शृङ्गार