अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2533, कुल 2600 में से
संदर्भ में पढ़ेंकरणेन हेतुना तथा तेन नन्दयशोदयोर्बालकत्वेन प्रीतिकारकत्वेन प्रकारेण निरोधार्थं प्रकटोभूत् । तथा यथाधिकारं तेन पूर्वोक्तप्रकारेणैव कृपां प्रथमस्य चतुर्थचरणस्थानुमानिकाधिकरणोक्ताम- व्यक्तपदवाच्यां अव्यक्तपदस्याक्षरवाचकत्वे तु तूष्णीं कृपां विज्ञानहेतुभूतां कुरु इत्याशीर्गृहीतां वा कृपामभीष्टः सत्कारपूर्वको व्यापार इति सिद्धान्तकौमुद्याम् । तेन कृपाविषयीणीच्छा कर्तव्या न तु पुष्टिनिरोधविषयीणी गोपीनन्दादिवत् । तेषां पुष्टिमार्गीयत्वादस्मदादीनां मर्यादामार्गीयत्वात् । कृपया विज्ञानं विज्ञानेनेच्छया निरोधः । नीत्यादि । निवेदितात्मभावेन महतां कृपया तथा । देहि स्वानन्दरूपं स्वदास्यं श्रीपुरुषोत्तम ॥ २ ॥ निवेदितो जीवस्तस्यात्मभावो 'विद्यैव तु निर्धारणादि'ति सूत्रभाष्योक्तरीत्या जीवस्य तनू- करणेन, भावपदेन भगवान् भावसंपृक्तः जीववत् 'ये यथा मां प्रपद्यन्त' इति वाक्या