अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2534, कुल 2600 में से
संदर्भ में पढ़ेंइतीति । इति विज्ञाप्य श्रीकृष्णमूर्त्यग्रे प्राञ्जलिः स्थितः । यशोदानन्दगोगोपीगोपसङ्घसमन्वितम् ॥ ४ ॥ व्रजं भावनया सिद्धं कृत्वा हृदि विभावयेत् । स्वार्थं प्रकटितं कृष्णमानन्दाकारमुत्तमम् ॥ ५ ॥ इति विज्ञाप्य आर्तस्याशक्यविज्ञापना, विरहस्य 'अशक्ये वा सुशक्ये वा सर्वथा शरणं हरि' रिति वाक्याद्विवेकाभावो न दोषावह इति पूर्वमुक्तम् । इदं विज्ञापनं अर्धरात्रे श्लोकसार्धाष्टपाठोत्तरम्, स्वार्थं प्रकटितमिति भूतप्रयोगात् । न च प्रकटितमित्यत्र पुरुषोत्तमप्रतिष्ठासामयिकं मूर्तं प्राकट्यं गृह्णीम इति वाच्यम् । कृत्वेति क्त्वान्तकर्तुः जन्माष्टमीदिनपुरुषोत्तमभावुकस्य प्रकटितकर्मभावना- कर्तृत्वात् । पुरुषोत्तमप्रतिष्ठासामयिकभूतप्राकट्यस्य जन्माष्टमीअन्यदिनपुरुषोत्तमभावुककर्तृकत्वात् । तत्सामयिकप्राकट्यग्रहणाद्योगात् । 'अत्र कटकाद्युपचाराः साक्षात्कृता भवन्ती'ति सेवाप्रकरणटीका- याम् । तादृशस्तु संयोगभक्तिः सुप्रसिद्धैव साप्यर्थशृङ्खला कथं पुरुषोत्तमाविर्भावं साधयेदतो द्वितीय- मर्धदलमाहुर्हृदि भावनाख्यम् । यशोदेत्यादि । ननूक्तेपि विरहे संयोगोपि सुस्थिर एवेति कथं भावनाख्यं द्वितीयदलं संयोगावस्थायामिति चेन्न । विरहावस्थायामेव हृदि प्राकट्यमिति नियमो नास्ति । 'ध्यानाच्चे'ति सूत्रे भाष्ये 'भावनौत्कण्ठ्यदशायां व्यभिचारिभावात्मकसततस्मृतिरूपध्याना- दपि हृदि प्रकटः सन्नासीनो भवतीत्यर्थः । 'तेन स्थैर्यमुक्तं भवती'ति भाष्यात् । न च 'भावो भावनया सिद्धः साधनं नान्यदिष्यते' इति सन्न्यासानिर्णयाद्भावनौत्कण्ठ्यं विरह एवेति वाच्यम् । 'आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तये'दिति सिद्धान्तमुक्तावल्यां संयोगभक्तिसञ्चारिण उपदेशात् । अतोत्र संयोगेपि संयोगसञ्चारिणः सुवचत्वम् । अत्र देवकीवसुदेवादि समन्वितं व्रजं सिद्धं कृत्वेति नोक्तम्, पुराणाद्युक्तमपि । कृष्णोपनिषदि 'यो नन्दः परमानन्दो यशोदा मुक्तिगेहिनी' । 'देवकी ब्रह्मविद्या' 'निगमो वसुदेव' इति श्रुतिभ्यस्तत्स्वरूपाण्युक्त्यावतीर्णस्य क्रीडा 'वने वृन्दावने क्रीडन् गोपगोपीसुरैः सहे'ति यतो नन्दादिभिरेवाह श्रुतिः । ननु जन्माष्टमीसमाख्याप्रामाण्या- ज्जन्मनो वसुदेवगृह्यत्वाद् द्विज्ञापनवाक्येषु यशोदानन्देत्यादिवाक्ये च देवकीवसुदेवाद्युल्लेखनेन सन्दर्भं विरचयन्तु गोपगोपीसुरोल्लेखनं क्रीडास्थलेऽन्यत्र भवतु न तु जन्माष्टमीत्यस्यामिति चेन्न । जन्माष्टमीसमाख्यायाः प्राप्तावपि, पुराणान्तरेण प्राप्तावपि भागवते मते जन्मनो गोप्यत्वेन वसुदेवगृह्य- जन्मार्थमुल्लेखनासम्भवात् । 'जन्म गोप्यं भगवत' इति प्रथमस्कन्धात् । जन्माष्टमीसमाख्याया भागवते मते 'वासुदेवस्त्वत्रैवाविर्भूत इति सिद्धान्त' इति सुबोधिन्या नन्दगृह्यक्रीडास्वपि सम्भवात् । हृदि कृष्णं भावयेदित्यन्वयः । सदानन्दम् । जन्माष्टमीभावनातः प्रकटितमिति विशेषणम् । तदपि 'परित्राणाय साधूना'मिति गीतातः । स्वार्थं स्वीयार्थम् । 'तदपि 'विनाशाय च दुष्कृताम् । धर्मसंस्था- पनार्थाय सम्भवामि युगे युगे' इति वाक्यात्सङ्कर्षणानिरुद्धकार्यार्थं न, किन्तु 'भक्तियोगवितानार्थ'मिति गीताविस्ताराद् भक्तियोगवितानार्थमानन्दाकारम्, तदप्युत्तमं कार्यस्यानाधिकरणत्वम्, न तु विषयानन्दाकारम् । तत इति । ततः संपूजयेद्भक्त्या यथालब्धोपचारकैः । संयोगसेवायां दास्यभक्तित्वेन तदन्तर्गतानि भक्तिवर्धिनीनवरत्नश्रीभागवतान्यवतार्यन्ते, तत्र