अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2542, कुल 2600 में से
संदर्भ में पढ़ेंवसन्तः । मकरकर्कटयोर्यदा विवर्तनः सङ्क्रामति तदा पर्वात्मक उत्सवः पूर्वमत्रापि । किञ्च, पौषे श्रीगोस्वाम्युत्सवोपि कृष्णपक्षनवम्याम्, ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ’ इति श्वेताश्वत- रात् । ननु गोपीनाथजिदुत्सवः कुतो नोक्त इति चेन्न ब्रह्माण्डपुराणे सप्तसप्तत्यध्याये मथुरा- गोकुलायुक्तम् ‘तत्राहं मुहुः तं रूपं सर्वलोचनगोचरं, करिष्ये विमलं सौम्य मम भक्तसुखावहम् । विल्लेशेतिविख्यातिं गमिष्ये जगतीतले’ इति वाक्येभ्यः । काम इति कामेपि प्रमदाभावकरणं कामसुन्दरम् । तदर्थं सेवयेत्कृष्णं कैशोरे वयसि स्थितम् ॥ १ ॥ एवं संसेवितः कामपञ्चम्यां कामदोसि यत् । गोपीनां कृपया देहि तथा मे काममद्भुतम् ॥ २ ॥ अद्भुतपदमहिम्ना व्याख्यायते संराधनाभावेन प्रत्यक्षानुमानाभावात् । पुरुषादियोग्यकामोप्य- स्तीश्वर इति । ‘अपि संराधने प्रत्यक्षानुमानाभ्याम्’ इति सूत्रे संराधनस्य कारणत्वात्सर्वधर्मप्रत्यक्षे कामेपि पदेन भूर्भुवःसुवःपदवाच्यलक्ष्याः कामोध्यारोपितलक्ष्मीकः लक्ष्म्या रमणस्थानत्वाद् अत उक्तं प्रमदा लक्ष्मीस्तस्या भावो लक्ष्मीत्वं तस्य करणमिति कामात्सुन्दरम् । तदर्थं कामसुन्दरप्रमदा- भावकरणार्थं ‘कामादीतस्तत्र तत्र चायतनादिभ्य’ इत्यत्राविहितभक्त्यात्मककामस्य भगवत्सम्बन्धान्मुक्ति- साधनत्वमुक्तमिति तत्कामना कार्या, अत्र प्रमदाभावकरणं फलं कामादिनिष्ठं सेवा साधनरूपा देहिनिहेति फलसाधनयोर्वैयधिकरण्यं तत्तु दूषणं ‘उत्कर्षश्चापि वैराग्ये हरेरपि हरिर्यदी’ति सुबोधिनीकारिकातः स्व- वैराग्योत्कर्षार्थं यदि तदा नास्ति फलस्य स्वनिष्ठत्वस्य कृपया देहि तथा मे काममद्भुतमिति वक्ष्य- माणत्वान्न एवमुक्तपरामर्शेन कामपञ्चम्यां भक्तैः संसेवितो कामः अद्भुतत्वाद् यद् येन प्रकारेण गोपीनां कामदोसि त्वं तेन प्रकारेण सर्वेन्द्रियहोमकत्र्तृत्वं तदिच्छया विकृतलीलत्वेन प्रकारेण मे मह्यमद्भुतं कामं देहीति सत्कारपूर्वको व्यापारः अधीष्टे लोट् इति । अकामो भक्तेच्छया सकाम इत्यद्भुतम् । तथा हि विभावानुभावसञ्चारिणस्तावद् अत्र श्रीकृष्ण आलम्बनम् । तद्गुणातिशयः सच्चिदानन्दरूपत्वात्कामत्य- कामलक्ष्मीप्रमदाभावकरणलोकोत्तरसौन्दर्यकरणाद्यतिशय उद्दीपनम् । स्तवादयः ‘अकामो भगवान्’ कामदोसीत्युत्कर्षाधायकगुणवर्णनादयोऽनुभावाः । सेवनार्थं गतिधृतिहर्षादयः सञ्चारिणः । इति विस्तारिकायामद्भुतरसविवरणे । एभिः कारणादिभिर्विविधेषु पदार्थेषु लोकसीमातिवर्तिषु ‘विस्फा- रचेतसो यस्तु विस्मयः स उदाहृत’ इति लक्षणवाक्यादद्भुतः कामः । शृङ्गारेणैव सर्वे रसा रसभावं प्राप्नुवन्तीति रसयोर्विशेष्यविशेषणत्वम् । अन्योपि विस्मयो गोपीनां कामदोसीत्यत्र गोप्यः आविद्या- कला वैराग्यसाङ्ख्ययोगतपोभक्तिरूपास्तासां काम इति । दोलोत्सवः । अत्रापि पूर्वं माघी पौर्णिमा युगादिः, फाल्गुनी, सप्तमी, श्रीगोवर्धननाथागमनो- त्सवः, शुक्लैकादश्यां निकुञ्जोत्सवः, उद्यानोपवनोत्सवः, फाल्गुनी पूर्णिमा मन्वादिः । अत्र भावना उल्लासादिभिः कीर्तनादिभिश्च कार्या एव । प्रियेति । प्रियोरुरूपभावात्मस्तम्भयुग्मसमन्विताम् । श्रीकृष्णस्मृतिसौख्यां यद्दोलामारोपयाम्यहम् ॥ १ ॥