सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2543, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2543

परिशिष्टम् । ५७ प्रियाबाहुलताभावात्मिकायामनुरागतः । दोलायां दोलयामि त्वां प्रसीद पुरुषोत्तम ॥ २ ॥ स्वाधिकारानुसारेणेयं भावना न सर्वजनाधिकारानुसारिणीत्युपरमामः । पुरुषोत्तमप्रकरणे श्रीम- दाचार्यैरिन्द्रियहोमः प्रतिपादितः सोपि ग्रन्थान्तरे कस्यचित्पुंसः कृतपुण्यपुञ्जस्य भगवता सह रिरंसा समजनीत्यादिनैतादृशशिरंसावतो दासस्य तु निरोधलक्षणग्रन्थोक्तरीत्येन्द्रियहोमस्तथापि स्ववंशे स्थापिताशेषमाहात्म्या आचार्या अतो ग्रन्थे निबन्धः । अन्येषामपि 'यद्यदाचरति श्रेष्ठ' इति न्यायेनेयं भावना 'ईश्वराणां वचस्तथ्यं तथैवाचरितं क्वचित्' इति न्यायानुसन्धाने तु 'आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेदि'ति दासभावेन भावनात्रयं, मध्यमाधिकारे तु स्वधर्मबुद्ध्या प्रेम्णे । हीनाधिकारे तु स्कन्दपुराणोक्तं 'त्रिरेव दोलयेद्देवं सर्वपापापनोदनम्' इत्यन्यदप्युत्सवप्रतानेऽस्ति। स्कन्दस्य तामसत्वेऽपि पुराणानां सात्त्विकादिविभागो न प्रवृत्त उत्सवप्रताने ग्रन्थान्तरे आकरे निबन्धलेखे श्रीकल्याणरायै- स्तूक्तः । अत्र सूत्रं 'तानि परे तथाह्याहे'ति । श्रुतिः 'ता वां वास्तूनी'ति । गीता त्रयोदशेऽध्याये 'सर्वेन्द्रियगुणाभासमि'ति । श्रीहरिरायाणां कीर्तनं हिन्दोलायाः 'झूली झूली हो पियसङ्ग पावसरितु आनन्दभरी । चरणयुगल दोऊखम्भ भये भुजदाण्डी चारि सिरजुरे मयारहहो लटकन आभूखन बहुरङ्ग' कीर्तनादिभिर्भावनाः । रामनवमी । अत्रापि द्वितीयापाटपुष्पमण्डिनीसंवत्सरादि पूर्वं बोध्यम् । श्रीति । श्रीकृष्णहास्यरूपेण प्रमदाभावकारकः । तदर्थं प्रकटाय त्वां भजामि रघुनायक ॥ १ ॥ यथैवाग्निकुमाराणां भावमुत्पाद्य दत्तवान् । वरं मे कृपया देहि तथा वेष नमोऽस्तु ते ॥ २ ॥ श्रीकृष्णस्य हास्यरूपेण रामतापिनये 'कामरूपाय रामाय नमो मायामयाय चे'ति श्रुतौ मायामयायेत्यत्र प्राचुर्ये मयट् । रामस्य मायाऽविकारत्वात् । तच्च प्राचुर्यं श्रीकृष्णसत्तांशतो बोध- यतीत्युक्तं श्रीकृष्णहास्येति । प्रमदाभावस्य कार्यत्वेन वक्ष्यमाणत्वात्तद्बीजशक्तिः श्रीति कायस्य मायामयत्वेन 'पुष्टिं कायेन निश्चय' इत्यत्र कायपदार्थत्वेऽपि प्रमदानां साधारणीनां ग्रहणे प्राप्तेऽप- लापप्रसङ्गात् । वाराहे श्रीभागकयनाच् छ्रियाः कृष्णस्येति वा । इन्द्रियमयायेत्यनुक्त्वा मायामयाये- त्युक्तं तत्सूचयति प्रमादाभावकार्यं भेद्युतमेव । मायापदवाच्यानीन्द्रियाणि यथा तथा पुराणे गुणा मायापदवाच्याः 'हास्यं जनोन्मादकरी च माये'ति वाक्यान् मायामयायेत्यत्र मायापदसूचितहास- रूपेनेत्यर्थः । हास्यावतारः श्रीराम इति प्रसिद्धिः । रामतापिनये मन्त्रसाधनमन्यमार्गपरं मतं नात्रोपयु- ज्यते । दण्डकारण्यवासिनासृषीणां प्रमदाभावकारकः प्रसिद्धम् । यत एतादृशः स्वतः प्रमदाभावकर- णार्थं प्रकटाय तुभ्यं नम इत्यनुकर्षेणान्वयः । मर्यादापुरुषोत्तमत्वेन ग्रन्थकरणवेलायां प्रकट इति नमनं भगवदाविर्भावे माहात्म्यज्ञानपूर्वकं नमनं कर्तव्यमिति सुबोधिन्याम् । रघुनायकेति सम्बोधनं रघूणां नायक इति दासानां दास्योग्यं वरान्तरमपि ध्वनितं देयम् । मायामयायेति श्रुतौ मायापदं माङ् माने शब्दे चेति धातुपाठान्माने परिच्छिन्नपरिमाणे शब्दे चास्ति । ततः प्रत्ययः मयट् च । एवं चात्र हासं जनोन्मादेति वाक्योपबृंहितश्रुत्या हासं मायेति । 2405

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2543, कुल 2600 में से · BharatKosha