सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2544, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2544

४८ | परिशिष्टम् ।

श्रीमत्प्रभूत्सवः । श्रीकृष्णेति । श्रीकृष्णान्तरकृष्णास्यस्वरूपविहारकृत् । तदर्थप्रकटः स्वीयदास्ये मामनुभावय ॥ १ ॥ 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ'विति श्वेताश्वतरश्रुतेरावश्यकः । 'आचार्य मां विजानी- यान्नावमन्येत कर्हिचित् । न मर्त्यबुद्ध्यासूर्येत सर्वदेवमयो गुरु'रिति भगवद्वचनात् । अत्रापि 'प्रभौ परिवृढ' इति पाणिनिसूत्रात् परिवृढसमानाधिकरणप्रभुपदोपादानम् । परिवृढाष्टके श्रीपुरुषोत्तमे परिवृढपदप्रयोगः । अतः प्रभूत्सव इत्युक्तम् । आचार्यत्वं च नूतनमार्गप्रवर्तकत्वं 'आचार्यवान् पुरुषो वेद' इति श्रुतेः 'आचार्यश्चैत्यवपुषा स्वगतिं व्यनक्ति' इति स्मृतेश्च । 'उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । सरहस्यं तदङ्गं च तमाचार्यं प्रचक्षत' इति आरणश्रुतिर्वेदमार्गाचार्यलक्षणप्रति- पाद

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2544, कुल 2600 में से · BharatKosha