अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2546, कुल 2600 में से
संदर्भ में पढ़ें५० परिशिष्टम् । विषयत्वेन सुबोधिन्यां व्यवस्थापनाद् अत्रापि स्वयं विष्णुः प्रविश्याजीवयद्धि तदित्युक्तम् । तदि- त्यचेतनं मिथुनं यमयम्यात्मकम् । तापेति स्वयं तापः सा करैस्सहेत्युक्तस्तदनन्तरं भगवत्तोषः । 'तुष्यतां मे स भगवानि'ति श्रीभागवते कालिन्दीवाक्यात् तस्य भावनाद् उत्पादनात् तापानन्तरं तोषे स्वरूपरसदानमित्युक्तम् । हे प्रभो परिवृढ सुदृग्भिरभिषिक्तो भवेत्यधीष्टे लोट् । यद्वा कालिन्द्यै स्वरूपरसदानार्थम् । यद्वा यामुनब्रह्मवारिणेत्यत्र कालिन्दीब्रह्मवारिणेत्यर्थः । यामुनेत्यत्र शैषिकप्रत्ययात् । यमुनया गृह्यते रूपान्तरेण कालिन्दीत्वेन तद्यामुनमेतदुभयपक्षे 'अहं देवस्य सवितु'रित्यादिसुबो- धिनीसन्दर्भे स्फुटोऽयमर्थ उत्तरार्धे । प्रियेत्यादि 'प्रिया कालिन्दी सैवाहं स्वयं विष्णुः प्रविश्ये'ति वाक्यात् तदेव रसो मधुरः तद्युक्तं नीरं तेन ॥ २ ॥ अभिषेकः स्नातं स्नातस्य भक्तेच्छया लीलाप्राकट्यमाहुः स्नातस्येति । स्वसृष्टिमात्मसृष्टिम् । कारणात्मिकां ब्रह्मात्मिकाम् । सत्क्रीडाममृतक्रीडाम् । तद्दास्ये ब्रह्मदासे विस्तृतब्रह्मक्रीडाङ्गी- कृतदासे । स्वीकुरुष्वेत्यात्मनेपदं स्वीकारफलं भजनानन्दरूपं आत्मगामि प्रतिपादयति । स्वसृष्टिः सर्वातः स्वसृष्टिं विशिषन्ति स्म कारणात्मिकामिति । कारणानि श्रीगोकुले भक्तेच्छया जातानि अथवा दहराधिकरणोक्तपरमात्मन्यवरुद्धानि कारणानि ब्रह्मजीववादनिराकरणसिद्धानि । न स्थान- तोपीत्यधिकरणे ब्रह्मस्वरूपं सिद्धम्, 'अपि संराधन' इति सूत्रे फलायितं वा, अरूपवत्सूत्रे सिद्धं वा कारणं प्रस्थानरत्नाकरस्य प्रमेयप्रकरणे 'तच्च ब्रह्म पूर्वं निराकारमेव सच्चिदानन्दात्मकं सर्वभवनसमर्थ'मित्येवं सर्वभवनसामर्थ्योक्तेः, जिज्ञासाधिकरणे निर्गुणमेव ब्रह्म कारणमिति निरुक्तेः । इमानि कारणानि आत्मा स्वरूपं यस्याः । आत्मसृष्टिस्तु वाराहे 'प्रादुर्भावोऽवताराणां मम सृष्टिरीतीरिते'ति लाक्षणिकोक्ता सापि व्याख्येया । सत्क्रीडायां मृत्युरूपाशननिवृत्तिस्तु न, तद्भिन्नतत्सद्दशाशनाया अमृतत्वेनामृतरूपापेक्षित- भोगस्य सम्भोगप्राप्तिसूत्रे प्रसाधनात् ॥ ३ ॥ रथोत्सवः । मन इति । मनोरथात्मकरथे रथात्मात्मन् हरे मम । श्रीकृष्णस्योपवेशार्थमधिवासं कुरु प्रभो ॥ १ ॥ मनोरथो भक्तानां ब्रह्मणि प्रचरति तेनात्मा स्वरूपं यस्य तादृशे मम रथे, हे हरे प्रपन्ने वर्तमानानां सर्वदुःखहर्तः । यद्वा रथो देहस्तस्मिन्नात्मा जीवात्मा तसात्मा स्वरूपं रथशब्दस्य देहे शक्तिः 'आत्मानं रथिनं विद्धि शरीरं रथमेव त्वि'ति श्रुतौ जीवसाक्षात्मककरणसामर्थ्यं द्योतितम् । 'य एवास्मि स सन् यज' इति श्रुतेः । तदपि भावात्मकं तु यद्धाम तद्रूपत्वेन व्यावर्तयामासुः प्रभो इति परिवृढ इत्यर्थः पुरुष इति यावत् । तथा च भाष्यम् । अक्षरस्यापि ब्रह्मत्वं पुरुषस्यापि तयोः परापरभावोऽभेदश्चेति अदृश्यत्वाधिकरणे । क्रियासहितसदानन्दरूपश्रीकृष्णस्योपवेशार्थं अधि अधिकं प्रभुत्वेन वासम् । यद्वा मनोरथात्मकरथविशेषणम् । अधिवासमिति वास इत्यर्थः वास इत्यधिवासमव्ययीभावः । उपवेशार्थमुपवेशस्यार्थं प्रयोजनं फलमानन्दं कुरु यद्वा योग्यतां कुरु । अधीष्टे लोट् । मनोरथेति । मनोरथात्मकः कृष्ण कल्पितोऽयं रथस्तव । पूरयाज्ञोपसंविश्य गोपीवन्मन्मनोरथम् ॥ २ ॥ . 2408