सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2547, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2547

'उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पने'ति रामपूर्वतापनीयश्रुतेः कल्पित इत्युक्तम् । 'मनोरथान्तं श्रुतयो यथा ययु'रिति फलप्रकरणे वाक्यान्यन्मनोरथत्वावच्छेदेन मन्मनोरथं पूरयेति सत्कारपूर्वको व्यापारः । श्रीकृष्णोति । श्रीकृष्ण रथमारुह्य सरामेण सुभद्रया । पाहि मां भक्तिदानेन दुःखसंसारसागरात् ॥ ३ ॥ हे श्रीकृष्ण स पूर्वं मनोरथपूरकत्वेन भावितो रामेण सुभद्रया च सह त्वं रथ- मारुह्य दुःखसंसारसागरान्मां पाहि। नन्वियदवधि सेवयैव दुःखसंसारसागरात् पा रक्षणे रक्षणं कृतमेव 'ततः संसारदुःखस्य निवृत्ति'रिति सिद्धान्तमुक्तावल्याः पुनः कुतः स्मारयसीत्यत आहुः 'भक्तिदानेनेति । सर्वात्मभावोत्र भक्तिः दानपदसमभिव्याहारात् 'प्रदानवदेव तदुक्तमि'ति तार्तीय- सूत्रात् । सर्वात्मभावाभावजदुःखं तिष्ठत्वेवेत्यंशतोऽपि दुःखसंसारसागरात्पाहीत्यर्थः । हीनाधिकारे तामसस्कन्दोपन्यासेन । सर्वत्र प्रसिद्धरथोत्सव उत्सवप्रताने प्रतिपादित एव, भावनायां भावनापि । पवित्रोत्सवः। अत्रापि पूर्वं षष्ठी पूर्णिमा हिन्दोला श्रावणशुक्लतृतीया वाटिका बोध्याः । तत्र षष्ठीपूर्णिमयोर्भावने विधेये के अपि । हिन्दोलायां दोलोत्सववद् भावना । 'झूली झूली हो पिय- सङ्ग' इति भाषाकीर्तनाद् अन्यैः कीर्तनैश्च । अत्र तृतीयायामपि कीर्तनाद्भावना । उद्यानेऽपि उल्हा- सादिभिर्भावना । द्वितीयस्कन्धनवमाध्याये 'प्रेङ्खं श्रिता या.....गायती'त्यत्र सुबोधिन्यां हिन्दोलोक्ता । अक्षरे लीनतासिद्धौ भृशं लक्ष्मीर्यथाकरोत् । दोलिकारोहणं स्वप्रियकर्म गायती तथा ॥ १ ॥ प्रतिमुखे मुखान्दोलैरक्षराद्भयं कुरु । मम कृतिरियं न मूलग्रन्थकृताम् । या कृतेति । या कृता वार्षिकी सेवा सा मूलफलदा मता । प्रत्यहं सूत्ररूपेण सैकीभूतानुभावनातू ॥ १ ॥ मूलं धर्मी प्रत्यहं क्रियमाणा तु तत्तद्वन्तर्गततत्तद्दिनसेवाजततोषमुत्पादयन्ती प्रत्यवायाभावे पर्यवस्यति न तु मूले, प्रत्यहं सेवया प्रेमासक्तिव्यसनानां भवनात् । प्रेमत्वेन सेवात्वेन कार्यकारण- भावात् । तदुक्तं 'कृष्णसेवा सदा कार्ये'ति सिद्धान्तमुक्तावल्यां तट्टीकायां तदकरणे प्रत्यवायी भवतीति । मानसी सा परा मते'त्यस्य टीका परा फलरूपेति 'मद्भक्तेः कारणं पर'मित्येकादश एकोनविंशे परमिति फलाव्यभिचारिकारणमतः परा फलाव्यभिचारिकारणमतो वार्षिकी सेवा प्रत्यहं क्रियमाणा सूत्ररूपा मूलफलदवार्षिकीसेवासूचनात् । 'सूचनात्सूत्रमित्याहु'रिति ब्रह्मोपनिषच्छ्रुतेः । न च यज्ञोपवीतसूत्र एवेयं प्रवर्तेत इति शङ्क्यम् । सूत्रपदादत्रापि समासस्यासत्त्वात् । एवं च प्रत्यहं सूत्ररूपेण 'प्रकृत्या- दिव्य उपसङ्ख्यान'मिति वार्तिकेन तृतीयाऽभेदार्थिका सूत्ररूपेणेत्यत्र तथा च सूत्ररूपा भिन्ना या सेवे- त्युक्तम् । ननु सूत्रं कार्पासं सेवानुवृत्तिः क्रियेति यावत् तयोर्द्वयोर्कर्मणोः कथमभेद इति चेन्न । 'क्रियाङ्गं तद्धि वै स्मृत'मिति ब्रह्मोपनिषदः क्रियाङ्गस्य क्रियाकत्वात् तदन्तःपातिनां सूत्राणां तद्रूपत्वात् । ननु सूत्रपदस्य कार्पाससूत्रं शक्यार्थः न क्रियातोत्र कथं सूत्ररूपा, सूत्रपदेन रूप्यत इति सूत्ररूपेति चेन्न । सूत्रपदस्याभिधेयार्थतिरस्कारेण व्यङ्ग्येर्थे तात्पर्येर्थे वा क्रियारूपे प्रवृत्तेः सूचनात्सूत्रमुच्यत इति श्रुतेः ।

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2547, कुल 2600 में से · BharatKosha