सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2556, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2556

६० परिशिष्टम् । मुक्तिमपि तुच्छां मन्यन्त' इति । अन्यत्सर्वं तृतीयाध्याय एवोपपादितम् । एवं च 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती'ति श्रुत्या वेदानुवचनेन ब्राह्मणा ज्ञात्वा वेतुमिच्छन्तीति वेदनं तु भक्त्या । व्यापारः कृपा । ततो जानातीच्छति यतत इति लोके न्यायविदो वचनात्कृष्णानुवृत्तिरूपा सेवोक्ता इयमंशत्रयवतीत्यन्यत्र भक्तिरत्नटीकायां विस्तरः । 'यदेव विद्यया करोति श्रद्धयोपनिषदा वा तदेव वीर्यवत्तरं भवती'ति छान्दोग्यश्रुत्यौपनिषदज्ञानस्य कर्मयोगाङ्गता । 'अत एव ब्रह्मविदा मेव जनकादीनां कर्मणि सर्वदेवसान्निध्यमन्यथाऽऽभासत्वमेव' । एतच्च जिज्ञासाधिकरण एवोपपादितमेतच्च कर्म 'एकं साङ्ख्यं च योगं च वेदारण्यकमेव च । परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यत' इति वाक्याद् अगहनकर्मप्रकाशकपञ्चरात्राद्युक्तमित्यवसीयते । शैवान्प्रति तु पाशुपतशास्त्रमिति वेदान्तवेदसाङ्ख्ययोगपञ्चरात्रपशुपतिमतमिति षट्शास्त्राणां विषयाः । अत्र सेवामार्गे भगवदित्यारभ्य मां हि पालयेत्यन्ता नवश्लोकी, हरितुर्येत्यारभ्य भावमुत्तममित्यन्तं श्लोकद्वयं च श्रीमत्प्रभुविरचितसेवा- विधिरस्त एकादशश्लोकाः सानुपूर्वीव्याख्याने व्याकरिष्यन्ते । श्रीमत्प्रभुकृतसेवाश्लोकान् सानु- पूर्व्या लिखामः । 'प्रातरुत्थाय सविधानं स्नात्वा इत्यादि' इत आरभ्य श्रीगोपीनाथजितां सेवाविधि- कृतिरास्ति । सविधानमिति । 'यं मां स्मृत्वा अपूतः पूतो भवती'ति गोपालतापिनीये 'एवं विधिना गोपीचन्दनं यो धारयेत्स्वेतेतदधीते वे'त्युपक्रम्य 'सर्वेषु तीर्थेषु स्नातो भवती'ति वासुदेवोपनिषदि च श्रुतिभ्याम् । वारुणं स्नानं वेदान्तिनां कुतः प्राप्तम् । उच्यते । 'आचार्यवान्पुरुषो वेद' इति श्रुते- र्वेदन्प्राप्तीच्छुं प्रत्याचार्याज्ञाप्राधान्येन वारुणस्य स्नानस्योक्तिरुक्तं तु स्नानं सकलसाधारणम् । तदुक्तं ग्रन्थविशेषे कुम्भनदासादीन्प्रति 'मस्तके जलं निक्षिप्य स्नाया'दिति । विधानं तु भक्तिरत्नटीकायां प्रोक्तमेव परम्परागतं क्रियत एवं पञ्चरात्राद्युक्तस्नानं तु ह्युपनिषदा कर्तुर्विहितम् । एकं साङ्ख्यमिति वाक्यात् । श्रीमदाचार्यान्स्मृत्वेति । अस्मन्मार्गे श्रीमदाचार्यस्मरणं विना तद्धैमनस्येन सेवा परगामिनी भवति । 'विनोद्धव गुरोर्भक्त्या भक्तिर्मम विडम्बनमि'ति वाक्यात् । बहुमात्स्केन स्मरणं भावनायां, नित्यकृत्ये तथोक्तेः । प्रार्थनादिकमाहुः भगवद्धामेत्यादि । भगवद्धाम भगवत्क्षमस्तेऽलङ्करोमि तत् । अङ्गीकुरु हरेरर्थे क्षान्त्वा पादोपस्पर्शनम् ॥ १ ॥ भगवन्मन्दिरं प्रार्थयित्वा नमस्कृत्येत्ययं ग्रन्थो हे भगवन् हे भगवद्धाम भगवद्धामतलेन वाक्यार्थांशेन युक्तं भगवन्निति ह्यदृश्यत्वाधिकरणोक्तरीत्याऽक्षरमभेदेन संबोध्य प्रभुत्वेन हरेः स्फूर्ती धामत्वेन तदुद्भवस्वाभाव्याद्धामत्वेन वाक्यार्थे बोधस्तदाश्रयत्वेन वक्तुरिच्छाविषयत्वात्प्रार्थना गम्यते धाम्नो भेदानुसन्धाने 'प्रार्थिते वे'त्यस्य न विरोधः । ते तुभ्यं नम इति नमस्कारः । उमाभ्यां गतार्थः । वाक्यार्थबोधाश्रयत्वेन वक्तुरिच्छाविषयत्वं सम्बोधनलक्षणं प्रार्थनागमनाय ज्ञेयं ग्रन्थकर्त्तुः श्रीगोपीनाथजितो भक्तिमार्गीयत्वेनाभिपुत्रत्वेऽपि 'ऋषिरमिकुमारस्त्वि'ति वाक्याद् आतुर्र्ग्रन्थकर्तु ऋषिस्वेऽपि मन्त्रत्वं नास्ति । श्लोकानामाचार्यकर्तृत्वात् । मन्त्रैरेव स्मर्तव्यमिति नियमस्य दशमचतुर्थपादे रथघोषेण माहेन्द्रस्य स्तोत्रमुपाकरोतीति श्रुत्यां रथघोषेण उपावर्तेयमिति बर्हिभ्यां स्तोत्रमुपाकरोतीति प्राकृतौ बर्हिर्मन्त्रौ बाध्यते एवं बाधात् प्रकृते 'स्वयं परिचरेद्भक्त्ये'ति तृतीयाश्रुत्या भक्त्याबाधात् किन्तुः भक्तित्वं तथा च भगवद्धामेत्यादिकीर्तनमभक्तिरूपम्, न मन्त्ररूपम्, कारिकातिरिक्तं ग्रन्थमप्यत्रैव बोधाय समग्रं लिखामः । 2418