सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2557, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2557

अलङ्कारं विवृण्वन्त एव मार्जनादिकं कुर्यादिति ग्रन्थं स्पष्टयांबभूवुः मार्जनादिति । मार्जानात्कृष्णगेहस्य मनोविक्षेपकं रजः । नाशमेति तदर्थं च मार्जयामि तथास्तु मे ॥ २ ॥ मार्जनमलङ्कारः । ननु 'कुर्यात्सर्वाणि कर्माणि मदर्थ'मित्यादित्रिश्लोकीमन्तरा कुतः सर्वोत्तम- मार्गे एकादशस्कन्धीयैकादशाध्यायस्थमार्जनादिकमूरीकुरुथेति चेन्न प्रकृतित्वात् । प्राकृतान्यङ्गानि त्रिश्लोक्यां निष्पतन्ति विकृतौ । भक्तिरत्नटीकायां प्रकृतिविकृतिभावः प्रपञ्चितः । चकारान्मानसी सेवा । 'मानसी सा परा मते'ति वाक्यात् । तथास्तु म इति मार्जनं मे मम मत्कर्तृकं 'कर्तृ- कर्मणोः कृती'ति सूत्रेण षष्ठी । तथा मनोरजोनाशकत्वमानसीसेवाजनकत्वाभ्यां प्रकाराभ्यामस्तु । इह कृष्णगेहमार्जनस्य कृष्णगेहस्य रजोनाशकत्वात्कुतः कृष्णगेहमार्जनत्वेन मनोरजोनाशकत्वेन कार्य- कारणभावः । उच्यते । गीतायां चतुर्दशेऽध्याये 'मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते' इति वाक्ये भक्तियोगसेवात्वेन गुणात्ययत्वेन कार्यकारणभाव- बोधनाद् यत् सामान्ययोः कार्यकारणभावस्तद्विशेषयोरपीति नैयायिकोद्घोषादुक्तकार्यकारणभाव इति । मार्जनादित्यत्रादिशब्दार्थमाहुः आत्मन इति । आत्मनोऽज्ञानरूपस्य दुरितस्य क्षयाय हि । करोमि सेकोपलेपौ त्वद्गृहे गोकुलेश्वर ॥ ३ ॥ आत्मनो जीवस्य अज्ञानरूपं स्वरूपाज्ञानरूपं तस्य क्षयाय सेकलेपौ, निबन्धे पञ्चसु विद्यापर्वसु भक्तिपर्वणा स्वरूपाज्ञाननाशोक्तेः । स्वरूपाज्ञानमविद्यायाः पञ्चमं पर्व । 'माया च तमोरूपा' इति श्रुतेः । अज्ञानं तमोगुणस्तस्य क्षयो भक्तियोगेनेत्यत्र गीता पूर्वं निर्दिष्टा ज्ञानत्वेन वा भक्तिरत्रा- ज्ञाननाशकत्वात् । यद्वा आत्मनो मनसः भक्तिस्तनुजा सेवा कार्यकारणभावः पूर्वमुक्तो गीतया तथा चैकादशे 'प्रकृतिवच्चांसि' 'उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि । सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः । गृहशुश्रूषणं मह्यं दासवदमायये'ति । ततः सिंहासनास्तरणं कुर्यादिति । तत इति क्रमवाचकपदम् । यद्यपि मार्जनाद्यानन्तर्यवाचकं तत इति पदं तथापि तात्पर्यैण क्रमवाचकम् । क्रमस्तु पाठमनादृत्य 'लोकवत्तु लीलाकैवल्य' मिति व्याससूत्रात् पश्चादुक्तमपि मार्जनादि पूर्वं कृत्वा प्रवर्तते । प्रकृतौ पूर्वं 'परिचर्यास्तुतिप्रह्वगुणकर्मानु- कीर्तन'मित्यनेनोक्ता परिचर्या पश्चात्कर्तव्या अर्थक्रमादत्र मार्जनादि परिचर्यार्थम् । 'सिंहासने समासीनं रामं' इति रामोपनिषच्छ्रुतेः सिंहासनपदम् । 'सिंहासने आस्तरणमिति सप्तमीतत्पुरुषः । अलङ्करणं सिंहासनस्य 'यथा सुन्दरतां याति वस्त्रैश्चामरगैरपि । अलङ्कुर्वीत सप्रेम तथा स्थानपुरः- सरम्'इति सेवाप्रकरणात् । अभीष्टमाहुः सिंहासने कीर्तनभक्तिरूपं सिंहेति । सिंहासनं मद्धृत्पद्मरूपं सज्जीकरोम्यहम् । श्रीगोपीशोपवेशार्थं तथा तद्योग्यतां भज ॥ ४ ॥ 'तद्रूपस्थैर्यमावहे'ति चतुर्थचरणं श्रीमत्प्रभुविरचितसेवाविधौ । सिंहासनं शेषरूपं 'अग्रतो भविता देव' इत्यत्र सुबोधिन्यां तथोपपादनात् । मद्धृत्पद्मं सर्वात्मभाववद्धृत्पद्मं तद्रूपं लिङ्गमूयस्त्वाधिकरणतोदो विहायैतदुपात्तम् । 'सर्वं सर्वमयं' इति तापनीयश्रुतेः । सिंहासनस्य

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2557, कुल 2600 में से · BharatKosha