अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2568, कुल 2600 में से
संदर्भ में पढ़ें७२ परिशिष्टम् । स्नेहेति । स्नेहात्मगन्धतैलेन प्रियगन्धातिचारुणा । अभ्यक्तो मङ्गलस्नानं कुरु गोकुलनायक ॥ ३१ ॥ स्नेहो गुणस्तदात्मा गन्धो न संभवतीति स्नेहेनात्मा स्वरूपं भगवद्योग्यतारूपं यस्य गन्ध- युक्ततैलस्य तेन तैलेन प्रियो गन्धः प्रियागन्धः पूत्युग्रगन्धव्यतिरिक्तो वा गन्धः प्रियगन्धस्तेन चारुणा मङ्गलदिने स्नानं कुरु । स्नेहेति । स्नेहात्मगन्धतैलस्य लापनाङ्गोकुलाधिप । वितरात्यन्तिकीं भक्तिं मयि स्नेहात्मिकां विभो ॥ ३२ ॥ भक्तिवर्धिन्यां तनुजासेवायां भक्तिवृद्धिर्बीजत्वेनोपादानाद् वितरेत्युक्तम् । ननु सेवायाः फलं मानसी सिद्धान्तमुक्तावत्युक्तम् । भक्तिवर्धनस्य फलत्वं कुत इति चेन्न । श्रद्धा भक्तिबीजं 'श्रद्धा रतिर्भक्तिरनुक्रमिष्यती'ति वाक्यात् । सेवा मानसीसेवायाः कारणम् । व्यसनात्मिका तु सेवा भक्तकृतार्थताबीजमिति । आत्यन्तिकीं भक्तिं फलाभिसन्धानरहितां 'मुक्तिं ददाति कर्हिचित् स्म न भक्तियोग'मिति वाक्यान् मुकुन्दाद्भक्तिसत्कारपूर्वोको व्यापारो युक्तः । स्नेहात्मिकां भक्तिं वितरेति । विभविति । मुक्तिदातुरपि भक्तिदाने सामर्थ्यं द्योतितम् । श्रीति । श्रीसुगन्धोद्वर्तनेन निशाश्रमनिवारणात् । उद्वर्तितः कृष्ण भक्तिदानेन कुरु मे कृपाम् ॥ ३३ ॥ चतुरसेवकैः सुगन्धयुक्तमुद्वर्तनं कृतं चेच्छ्रीयुक्तं भवतीतरथा तु कृष्णं शुभ्रं वा भवेत् । उद्वर्तनं उबटनेति लोके उच्यते । तत्करणं पुस्तकेऽस्ति । तथाहि । सठी, कचूरेति लोके तद्वस्तु सेटक- द्वयम् । कर्पूरा, कपूरकाचरीति प्रसिद्धा सा पादद्वयपरिमितोऽऽनकद्वयमिता च । ग्रन्थंस, वरमीति लोके, तत्पादद्वयानकद्वयपरिमितम् । जटिला, मूतकेशी छडीलो इति लोके सा पादद्वयानकद्वयमिता । तालीसपत्रं तमालपत्रं वा, पत्रेति लोके तदपि पादद्वयानकद्वयम् । मुस्ता, मोथा इति लोके सापि पूर्वोक्तमाना । बेसा, बेसवनोसा इति लोके सापि सार्धसेटकैकपादा च । वालम्, वालो इति लोके तदपि सेटकद्वयम् । उक्तसर्वाैषधय एकीकृत्य पक्वाः कृत्वा शुष्काः कृत्वा खण्ड्यन्ताम् । पश्चाद् रुगातुगा तवखीरेति लोके सा पादोनसेटकद्वयमिता । चन्दनं घृष्ट्वा कृताः खपड्यः सेटकद्वयानकद्वयाः । चन्दनचूर्णं सपादद्वयसेटकमेतानोषधीनेकीकृत्य पिष्ट्वा वस्त्रपूतान्कृत्वोद्वर्तनं कुर्यात् । 'कस्तूर्या चन्दने- नैव कुर्यादुद्वर्तनादिक'मिति स्कान्दे । निशेति आलस्यं स्नानेन निवर्तते श्रमस्तु 'मृत्युः श्रमो मूले'ति श्रुतेर्मृत्युरूपः स उद्वर्तनेन निवर्तते । भक्तीति करणे ल्युट् प्रकृत्यादित्वादभेदे तृतीया । भक्तिदानकरणीभूता कृपा तां कुरु । कृपापदस्यानुग्रहे गौणी । तेनानुमानिकाधिकरणे विज्ञानकरण- त्वेऽपि भक्तिदानकरणत्वं कृपायाः । परस्मैपदार्थ उक्त एव । आलस्यदूरीकरणाय स्नानमाहुः दिवेति । दिवा त्वदनुगमनस्मरणात्तापभावतः । गोपिकास्पर्शोष्णेन वारिणा स्नापयाम्यहम् ॥ ३४ ॥ ननूष्णेन वारिणा स्नापयाम्यहमित्येतावता चारितार्थ्ये 'लोकवत्तु लीलाकैवल्यमि'ति 2430