अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2569, कुल 2600 में से
संदर्भ में पढ़ेंव्याससूत्रात् । तदुक्तं सिद्धान्तरहस्ये 'सर्वेषां ब्रह्मता तत' इति 'निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिरि'ति च । स्पर्शनान्तं तु परं किमर्थमिति चेन्न । 'ऋतं पिबन्ता'विति श्रुतौ सर्वेषां ब्रह्मतारूप- प्रकारस्य प्रस्तावनाङ्गीकारात् । तदुक्तं सिद्धान्तमुक्तावल्यां 'कृष्णसेवा सदा कार्ये'ति । 'तस्माच्छ्रीकृष्ण- मार्गस्थो विमुक्तः सर्वलोकतः । आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेदि'ति । तथा च स्नान- वारिणि कृष्णविचिन्तनं दिवात्मनो वने गमनस्य स्मरणाद् यस्तापो विरहतापः सोऽपि भाव्यो भक्तिदलं ततो गोपिकास्पर्शनवदुष्णः स्पर्शो यस्य वारिण इति । ननु गोपिकास्पर्शनोष्णत्वचिन्तनं न कृष्णविचिन्तनमिति चेन्न । 'सर्वरस' इतिश्रुत्या कृष्णस्यैव सर्वरूपत्वेनास्य कृष्णविचिन्तनत्वात् । अत्र श्रीभागवतम् 'चन्दनोशीरकर्पूरकुङ्कुमागुरुवासितैः । सलिलैः स्नाप