सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2570, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2570

सदा ध्येया' 'दर्शनं स्पर्शनं स्पृष्ट'मिति वाक्ये । अत्र प्रयोगे यत्र मूर्तिकर्मकार्चनवाक्येऽयं कर्तृत्वेन प्रतिपाद्यत्वं तत्र हरिमूर्त्तिमत्फलमिति व्याप्तिः । सर्वथेति सर्वैः प्रकारैस्ते च 'कामादीतरत्रे'ति सूत्रोक्ता मन्मथकामुकत्वभयानकत्वद्वेषत्वसम्बन्धित्वस्नेहविषयत्वभक्तिविषयत्वरूपाः । अत्र द्वेषत्व- भयानकत्वरूपौ प्रकारौ भक्तिमार्गे चिन्त्यौ । तत्तत्स्वभावत इति तेन श्रीविष्णुना तस्य श्रीपुरुषोत्तमस्य स्वभावत्वात् । 'अलङ्कारप्रियो विष्णुर्'इति श्रीपुरुषोत्तमोऽप्यलङ्कारप्रियः शृङ्गोऽ- प्रियः क्रीडनकानि प्रियाणि श्रीपुरुषोत्तमस्य । यद्वा 'इन्द्रस्य युज्यः सखे'ति श्रुतेरिन्द्रेण समानानि शीलव्यसनानि श्रीपुरुषोत्तमस्येतीन्द्रस्वभावेन श्रीपुरुषोत्तमस्वभावमनुमाय भजेदित्यर्थः । ननु 'शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2570, कुल 2600 में से · BharatKosha