अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2577, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम् । ८१
कीर्तनभक्तिमपि तदर्थमाहुः स्वार्थेति । स्वार्थप्रकटसेवाख्यमार्गे श्रीवल्लभप्रभो । निवेदितस्य मे भोज्यं स्वास्ये कुरु हुताशन ॥ ६५ ॥ ‘मायावादतमोभिरस्तमधुवित्सेवाख्यवर्त्माद्भुतं, श्रीमद्गोकुलनाथसङ्गमसुधासंप्रापकं तत्क्षणात् । दुःप्रापं प्रकटं चकार करुणारागातिसंमोहनः स श्रीवल्लभभानुरुल्लसति यः श्रीवल्लवीशान्तर’ इति स्फुरत्कृष्णप्रेमामृतात्स्वार्थप्रकटसेवाख्यमार्गः । भोज्यं चतुर्विधान्नम् । हुताशन कृष्णवर्त्मन् । पानीयपात्रमपि ज्ञेयम् । घटिकाद्वयं भोगं प्रस्थाप्यानन्तरं कृत्यमाहुः । ततो यथावदाचमनं कारयित्वा ताम्बूलमर्पयेदिति, अत्र मुखवासं द्रष्टव्यम् । ‘मुखवासं सुरभिमत्ताम्बूलाद्यम्’ इति श्रीभागवतवाक्यात् । आचार्येभ्योऽपीति ज्ञेयम् । किञ्च ‘मद्भक्तपूजाभ्यधिके’ति वाक्यात्सस्त्रीबालकपादुकाजीनामपि ताम्बूलान्तं समर्पयेत् । ‘पितृदेवो भवे’ति श्रुत्या भक्तः स्वपितृभ्योऽपि पादुकाजीद्वारा योग्यं कुर्यात् । ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ’ इति श्रुतिः । ततो भोजनपात्रस्थले मार्जनं कुर्याद् गोकुलेशेति । गोकुलेश तवोच्छिष्टलेपात्पात्रप्रमार्जनात् । त्वत्सेवान्तरधर्मेषु रतिर्भवति निश्चला ॥ ६६ ॥ भोजनपात्राणां मार्जनं च कुर्याद् इति फक्किकार्थः । श्लोके उच्छिष्टलेपमालोक्य पात्राणां प्रकृष्टं मृदादिभिर्मार्जनं तस्मात् । त्वत्सेवातोऽन्यधर्माः पात्रप्रमार्जनादयस्तेषु । रतिः पूर्वं वर्तते सेवान्तरधर्मेष्वपि प्रवृत्तत्वात् । इदानीं नित्यदा करणान्निश्चला । अन्तरपदं मध्यवाचि वा । ततश्चरणयोस्तुलसीं समर्पयेत् प्रियेति । प्रियाङ्कगन्धसुरभितुलसीं ते पदप्रियाम् । समर्पयामि मे देहि हरे देहमलौकिकम् ॥ ६७ ॥ तुलसीविशेषणं पूर्ववत् । पदप्रियाम् ‘कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये’ इति वाक्यात् । देहमिति । तुलस्याः पदसमर्पिताया अलौकिकदेहदातृत्वं पद्मपुराणे ‘सुकृती दुष्कृती चापि तुलस्या योऽर्चयेद्धरिम् । देहान्ते दिव्ययानेन विष्णुभक्तैः स नीयते’ इति । देहमन्तरा यानेन नयनासम्भवात् । प्रसीदेति । प्रसीद पूजितो भक्त्या तुलस्या प्रियगन्धया । निःकिञ्चनाधीश नान्यत्कर्तुं शक्नोमि सर्वथा ॥ ६८ ॥ तुलस्याः गोविन्दचरणप्रियत्वात् प्रसीद । अन्यत्पुष्पमालादि । सर्वथा सर्वैः प्रकारैः देहेन मूल्येनाज्ञया वा । तादृशदेहवान् मूल्यवानाज्ञावांश्च नास्मीति देहादीनां प्रकारता । ननु निः- किञ्चनस्य कथं सेवेति चेन्न । यतो निःकिञ्चनानामधीश ‘धर्मान्सन्त्यज्य यः सर्वान्मां भजेत्स च सत्तम’ इत्येकादशस्कन्धदशमेऽध्याये । ‘न्यासादेशेषु धर्मत्यजनवचनतोऽकिञ्चनाधिक्रियेते’ति । ननु गीता कुतो नोक्ता ‘सर्वधर्मान्परित्यज्ये’त्यादिः । गीतायाः प्रकृतित्वाभावात् । एकादशस्कन्धस्य भक्तिमार्गस्यैकोनत्रिंशाध्यायोक्तस्य प्रकृतित्वात् । धनी पुष्पमालाः पुष्पमण्डपादिकं कुर्यादेव । बीटिका- समर्पणमपि । ततः पादपीठादिकमर्पयेत् । आदिपदेन जलपात्रं मुखवस्त्रं दर्पणमुष्णकालश्चेन्मृत्पात्रं जलपूर्णं चन्दनपात्रं च व्यजनानि च सिंहासने उभयपार्श्वयोः स्थापनीयानि । सिंहासनखण्डास्तरणं