अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2576, कुल 2600 में से
संदर्भ में पढ़ेंश्रीभागवते उपहारान्तरमुक्तम् । 'गुडपायससर्पींषि शष्कुल्यापूपमोदकान् । संयावदधिसूपांश्च नैवेद्यं सति कल्पये'दिति 'पच्यन्तां विविधाः पाका' इति श्रीगोवर्धनप्रसङ्गे । उपहारपदस्य नैवेद्यवदन्यत्रापि वृत्तेराहुः कम्ब्विति । कम्बुनाज्ञातातिप्रियश्रीशङ्खान्तर्गतवारिणा । दृष्टादिदोषाभावाय सामग्री प्रोक्षिता विभो ॥ ६३ ॥ कम्बुर्गलस्तत्सञ्जातातिप्रियः श्रीशङ्खो गलकम्बुः । तथा च विश्वः 'कम्बुः शम्बूक- गजयोर्ग्रीवागलकम्बुयोः' अमरः 'कम्बूनां वलये शङ्खे' इति । कम्ब गतौ सुग्वंवादिः । काम्यते वा । एकदेशान्वयः । तदन्तर्गतवारिणा । भक्तिमार्गानुसारेणाहुः दृष्टाविदोघेति । आदिपदेनाज्ञा- तास्पृश्यतादोषः । तदुक्तं 'नार्थं तडागजं वापि वापीकूपादिकं च यत् । गाङ्गेयं जायते सर्वं जलं शङ्खे कृतं सुत । त्रैलोक्ये यानि तीर्थानि मम वै याज्ञया सुत । शङ्खे तानि वसन्तीह तस्माच्छङ्खो वरः स्मृत' इति स्कान्दे । याज्ञयेत्यत्र इ आज्ञयेति छेदः । श्रीभागवते च 'अपां तत्त्वं दरवर' इति । यद्वा कम्बुर्वलयस्तत्सञ्जाता कम्बुना गृहीतः शङ्खोऽतिप्रियो भवति । राधाभृङ्गारत्वाद्वल यस्यान्यत्पूर्ववत् । प्रायपाठात् ययाव्रजस्त्रीकरयुग्मलेति यन्नविशेषणम् । 'व्रजस्त्रीकरयुग्मात्मयन्त्रे पात्रं च तन्मयमि'त्यत्र तथा च वलयस्मारककम्बुपदेन शङ्खाभिधानाद्दतं पिबन्ताविति श्रुत्युक्तस्वरूपामृतपानात्मकः शङ्खभोग श्वात्मनः सिद्धः । न च शङ्खभोगो न वलयभोग इति वाच्यम् । सर्वं सर्वमयमिति श्रुतेर्वलयस्य स्मारकपदप्रयोगे वलयस्यापि भोगाङ्गीकारात् । प्रक्षिपेति । प्रक्षिप्ता तुलसी तेऽतिप्रियगन्धा तथैव च । कुरुष्व तेनातिसंतुष्टो भोजनं व्रजनायक ॥ ६४ ॥ अतिप्रियेति । तदुक्तं ब्रह्मपुराणे 'तुलसीदलगन्धेन मालतीकुसुमेन च । कपिलाक्षीर- दानेन सद्यस्तुष्यति केशवः' इति । राजसत्वेऽपि पुराणस्य समबलत्वं समोत्कर्षः समं प्रामाण्यं परेषाम् । अस्माकं फलोत्कर्षयोः साम्यासहनमिति बहिर्मुखमुखध्वंसे कल्याणरायाः । तथैव मक्तराधासद्गन्धत्वे- नैवेत्यर्थः । तेनातिसन्तुष्ट इत्यत्रातिपदम् । अतिप्रियेत्यत्रापि । वाक्यं तु गरुडपुराणे भगवतः 'तुलसीं प्राप्य यो नित्यं न करोति ममार्चनम् । तस्य तां प्रतिगृह्णामि न पूजां शतवार्षिकीम्' इति । इदं सात्त्विकं पुराणम् । 'भक्त्या तुतोष भगवान् गजयूथपाय' इति श्रीभागवतम् । एवमुक्तं श्रीगरुडपुराणे 'तुलसीदलसम्मिश्रं हरेर्यच्छति यः सदा । नैवेद्य'मित्यादि 'भाषणं मा त्यजे'ति श्लोकचतुष्टयेन समर्पये- दिति मूलम् । अत्रार्घ्यपात्रेऽर्घो ज्ञेयः । विष्णुरहस्ये 'सौवर्णे रम्यपात्रे तु मणिरत्नविभूषिते । तोयाषष्टाङ्गसम्पूणं स्वामिनेऽर्घं ददामि ते' इति वचनात् । यद्यपि नृसिंहपरिचर्यायां मानसीसेवायाँ पादप्रक्षालनानन्तरमनेन वाक्येनार्थ उक्तस्तथा स्कान्दे 'अर्घ्यं दद्यात्ततो वत्स पाद्यमाचमनीयकमिति पादप्रक्षालनमर्थ्यानन्तरमुक्तं तथापि प्रयोगभेदात्तात्क्रममनादृत्य क्रमान्तरेण नैवेद्यसमये बोध्यः । तदित्थम् । 'अङ्गोपहृतं स्नेहं भक्तेन मम वार्यपि' । 'गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः ।' 'भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ।' इत्येकादशसप्तविंशाध्याये भगवदुपदेशः । तत्र भक्त्या क्रमेण नैवेद्यसमयेऽर्घः । एकत्र सिद्धः शाखायोऽपरत्रापि तथेत्यतिदेशस्य निर्बलत्वादग्रवदुपदेशा- पेक्षया । पूर्वतन्त्रे पञ्चमसैकादशाधिकरणे आचार्येषु आत्मभेदबुद्धेर्महापराघेषु गणनं यद्यपि तथापि लौकिकदृष्टिमतो भक्तस्वेच्छया पादुकाजितामुत्सवेषु निलदा वा राजभोगसमर्पणं पादुकाजितामाहुः ततः श्रीमदाचार्येषु समर्पयेदिति ।