अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2575, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम् । ७१ मालामुत्तार्य राजभोगसमर्पणमाहुः ततो राजभोगं समर्पयेच्छ्रीमदिति । श्रीमद्राधाङ्गसौगन्ध्यागरुधूपार्पणाद्विभो । भावात्मकूनसामग्र्यां भोगेच्छां प्रकटीकुरु ॥ ५७ ॥ अगरुधूपार्पणस्य विशेषणं पूर्ववच्चन्दनधूपार्पणस्योपलक्षकम् । तेन मुक्तः कृतसामग्रीको भवति । 'मुक्तोपसृप्यव्यपदेशात्' इति व्याससूत्रात् । धूपार्पणेन मुक्तत्वं तु तत्त्वसागरे 'कृष्णा- गरुसमुत्थेन धूपेन श्रीधरालयम् । धूपयेद्वैष्णवो यस्तु स मुक्तो नरकार्णवा'दिति नृसिंहपरिचर्यायाम् । भोगेच्छाकारणत्वेन भक्त्यान्याज्ञादुरात्मनः । सामग्रीज्ञानार्थं विशेषणम् । आभावात्मेति । भावो भक्तिर्दासरूपा तस्यामात्मा स्वरूपं यस्याः कृतसामग्र्याः । तथा च 'मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि' इति वाक्ये तत्पदार्थो भक्तत्वावच्छिन्नस्तत्र भक्तत्वं भक्तिरेव । तस्यामात्मा स्वरूपं यस्या इति सामग्र्या आत्मज्ञानविषयत्वम् । ततो जानातीच्छति यतत इति प्रणाल्या भोगेच्छां प्रकटीकुर्वित्युक्तम् । दीपः समर्पितो भोग्यरूपार्थाङ्गप्रदीपने । तद्दीपनेन बोधितभावो भोजनमाचर ॥ ५८ ॥ प्रदीपने प्रकाशने । ननु सूर्यप्रभाप्रकाशितेऽह्ने प्रकाशकान्तरदीपापेक्षाभाव इति चेन्न । भूयः प्रकाशदेशान्मन्दिर आगच्छत आत्मनः प्रथममपेक्षाभावे मानाभावात् । उद्दीप्तभावस्तूरीसस्नेहः 'धूपदीपोपहाराणी'ति श्रीभागवतम् । नारदीयकल्पे तु 'सघृतं गुग्गुलं धूपं दीपं गोगृतदीपितम् । समस्तपरिवाराय हरये श्रद्धयार्पयेदि'त्युक्तम् । धूपदीपानुक्तोपहाराण्याहुः ब्रजेति । ब्रजस्त्रीकरयुग्मात्मयन्त्रे पात्रं च तन्मयम् । स्थापितं ते भोजनार्थे योग्यभोज्याङ्गसम्भृतम् ॥ ५९ ॥ व्याख्यातम् । गुप्तरस इव प्रकारमाहुः स्वर्णेति । स्वर्णपात्रेषु दुग्धादि दध्याद्यं राजतेषु च । मृत्पात्रेषु रसालाद्यं भोज्यं सन्द्रोणकादिकम् ॥ ६० ॥ राजते नवनीतं च पात्रे हैमे सितां तथा । यथायोग्येषु पात्रेषु पायसव्यञ्जनादिकम् ॥ ६१ ॥ सूपौदनं पोलिकादि तथाऽन्नं च चतुर्विधम् । शुद्धं भावैकसंशुद्धं राधया सहितो हरे ॥ ६२ ॥ सन्द्रोणकं सन्धितं तदादिकमादिपदेन निम्बार्द्रकादि । यथायोग्यानि पात्राणि । श्रीपद्मपुराणे 'नैवेद्यपात्रं वक्ष्यामि केशवस्य महात्मनः । हैरण्यं राजतं कांस्यं ताम्रं मृण्मयमेव च । पालाशं पद्मपत्रं वा पात्रं विष्णोरतिप्रियम्' । इति नृसिंहपरिचर्यायाम् । सूपशब्देन 'दारि' इत्युच्यते लोके तद्ग्राह्यम् । पोलिका रोट्यः आदिपदेन बाटाः । चतुर्विधमन्नं भोज्यं तण्डुलादि, लेह्यं शिख- रिण्यादि, चोष्यमिक्षुदण्डादि, पेयं.दुग्धादि । भावैकसंशुद्धं भक्त्यैकसंशुद्धं सिद्धान्तरहस्योक्तरीत्या । नवनीतप्रियजित्स्वरूपे राधासखिर्भाला वा भावनीया । अत्र भावना गुप्तरसे स्फुटैव, उपहाराणीत्यत्र 2437