अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2587, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम् । ९१ नान्या कृतिः पौष्टिकानाम्, मार्यादिकीनां त्वन्या कृतिरूपदिष्टात्·साधनादन्या कृतिः । उत्तमानामिति विशेषणात् । तथास्त्विति विज्ञापना ज्ञेया । किञ्च, विज्ञापनान्तरमाहुः मानुष्येति । मानुष्यप्राप्तिसाफल्यं यत्संसारविरागिता । सात्त्विकत्वस्य साफल्यं श्रीकृष्णस्यानुरागिता ॥ ९९ ॥ अत्र पूर्वार्धे 'नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् । मयानुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स आत्महे'ति वाक्यम् । उत्तरार्धे 'सात्त्विका भगवद्भक्ता ये मुक्तावधिकारिणः । भवान्तसम्भवा दैवात् तेषामर्थे निरूप्यत' इति निबन्धवाक्यम् । तथा च मनुष्याणां पूर्वार्धोक्तं सात्त्विकानां तु पूर्वग्रन्थोक्तं भवत्विति विज्ञापनात्र । सात्त्विकानामर्थे ग्रन्थकरणात् । मध्ये विज्ञापनायाः षट्श्लोकाः स्नानायोग्यैः स्नानविज्ञापनाथीश्चिन्त्याः । पञ्चामृतस्नानोप- योगित्वाद् व्याक्रियन्ते । पञ्चेति । पञ्चामृतेन भावात्मरूपेणातिप्रियेण ते । स्नापयामि ततः स्नात्वा हृदि मे सुस्थिरो भव ॥ १०० ॥ 'अकामः सर्वकामो वे'ति वाक्याद् हृदि सुस्थिरत्वार्थं कारितं स्नानं सुस्थिरत्वफलकम् । कथं लेख्याद्यपेयैः स्नानमिति चेत्तत्राहुः भावात्मेति । भावा वक्ष्यमाणास्तदात्मरूपेण । अत एव अतिप्रियेण 'ऋतं पिबन्ता' विति श्रुतेः । वक्ष्यमाणभावानाहुः प्रियेति । प्रियाहास्यप्रभातुल्यरूपेण पयसा गवाम् । स्नानं समाचर विभो कम्बुस्थेन व्रजेश्वर ॥ १०१ ॥ प्रभा श्वेतरूपा । कम्बुः शङ्खः । यद्वा । विज्ञापना आहुः षड्भिः पञ्चेति । शयनसमये स्नानं भक्तिमार्गविरुद्धं प्रत्यहं, ग्रहणेऽविरुद्धं तत्राहुः प्रियेति । प्रियेति पूर्ववत् । गवामिन्द्रियाणां पयसा रसेनाह्लादरूपेण कम्बुर्गजस्तत्स्थेन खातेन 'आत्तगजेन्द्रलील' इति वाक्यात् । स्नानं ष्णा शुद्धौ अदादिरनिद् । इन्द्रियशुद्धिं समाचर । श्री३राणाजिञ्छ्रीमद्भीमसिंहजिद्नृपदा वाण्या प्रेरितोऽहं द्वितीया- र्थकर्ता । यद्वा । जलस्थलभेदेन क्रीडा द्विधा तत्र स्थलक्रीडामुक्त्वा जलक्रीडां स्नानात्मिकामाहुः पञ्चेति । अत्र पक्षे ततः प्रियाभिः सह त्वां स्नापयामि, त्वं प्रियाभिः सह स्नात्वेति पूर्वश्लोके, द्वितीये च प्रियाभिः सह त्वं नीराणां नीरेण शङ्खेन गान्धर्वेति गवां पयसा कम्बुस्थेनेति पदत्रयार्थो विश्वकोशात् स्नानमितरत् समानम् । राधिकेति । राधिकास्यामृतकरचन्द्रिकाविशदेन वै । सरसेन घनेनेह दध्ना स्नानं समाचर ॥ १०२ ॥ राधिकाया आस्यं मुखं तदेवामृतं चन्द्रस्तस्य करः पर्यायः किरणा वा तत्सम्बन्धिनी चन्द्रिका तद्वत् विशदः पाण्डुरस्तेन । पूर्वोक्तप्रयोजनायोक्तम् । सरसेन सजलेन । अम्लरस- सहितेन वा कम्बुस्थेनेत्यनुवर्तनीयम् । यद्वा । पूर्वार्धं पूर्ववत् । दध्ना श्रीनिवासेन वासेन वा शृङ्गारादि- रससहितेन घनेन दृढेन स्नानं भयजनितचित्तोद्वेगस्य शुद्धिं मार्जनं समाचर । नात्र कम्बुस्थेने- त्यनुवर्तनीयम् । जलक्रीडापक्षे बहिःस्नाने शीतं प्रतिबन्धकं भक्तिमार्गे, अतो दध्ना वासेन हेतुना प्रियाभिः सह त्वं स्नानं समाचर । इतरत् समानम् । नात्र कम्बुस्थेनेत्यनुवर्तनीयम् । 2449