सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2588, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2588

९६ परिशिष्टम् । प्रियेति । प्रियाधरामृतस्पन्दमधुरेण महाप्रभो । शङ्खस्थितेन मधुना स्नात्वा मुदमवाप्नुहि ॥ १०३ ॥ प्रियायाः अधरामृतमधरजलं तस्य स्पन्दः प्रस्रवस्तद्वन्मधुरेण मधुररसवता । उत्तरार्धं स्पष्टम् । यद्वा । पूर्वार्धं पूर्ववत् । शङ्खस्थितेन सुगन्धद्रव्यस्थितेन मधुना जलेन । चन्दनपात्रस्थितेन जलेन स्नात्वा कामानुदीपनशुद्धिं विधाय मुदमवाप्नुहि । जलक्रीडापक्षे शङ्खस्थितेन जलेनेत्यर्थः । स्नानयोग्यं जलमिति चेन्न 'समः षुषिणे'ति श्रुतेर्विस्फुलिङ्गसाम्येनोपपत्तेः । भक्तेन शङ्खस्थापितेन जलेनेति वा । स्नात्वा अङ्गशुद्धिं विधाय मुदमवाप्नुहि । प्रियेति । प्रियालेहैकरूपेण घृतेन व्रजनायक । स्नानं स्नेहात्मकं कृत्वा स्निग्धतां प्रकटीकुरु ॥ १०४ ॥ विशेषणं पूर्ववत् । स्निग्धतां भक्तिमत्तां भक्ततां वा । सुरतान्ते स्नेहो गच्छति स्नानानन्तरं प्रकटीभवत्यत उक्तं प्रकटीकुर्विति । यद्वा विशेषणं पूर्ववत् । घृतेन प्रदीप्तेन निर्नाशितेन पूर्वोक्त- सुगन्धद्रव्यप्रदीप्तेन कामेन स्नेहात्मकं स्नेह आत्मनि मनसि यस्मात् स्नानात्तादृशं स्नानं सुरतान्त- वैराग्यमार्जनं विधाय स्निग्धतां प्रकटीकुरु । जलक्रीडापक्षे घृतेन जलेनान्यत्पूर्ववत् । तथा च विश्वः 'घृतमाज्ये प्रदीप्ते च सलिले च घृतं स्मृत'मिति । प्रियेति । प्रियाप्रत्यङ्गसौन्दर्यमाधुर्यसमतां गतम् । तया शर्करया स्नात्वा प्रत्यङ्गोच्छूनतां व्रज ॥ १०५ ॥ प्रियायाः प्रत्यङ्गमङ्गमङ्गं सौन्दर्यं कार्ये व्यञ् । सुन्दरं तदेव माधुर्यं प्रियं तत्समतां गतं यथा भवति तथा त्वं प्रत्यङ्गमुच्छूनतामुत्सुकतां व्रज । कया तया प्रसिद्धया शर्करया स्नात्वेत्यर्थः । यद्वा उं शंभुं प्रति पलति गच्छति तादृशोपलारूपशर्करया स्नात्वा तच्छक्तियुक्तत्वेन केवलमन्मथमन्मथस्य- मार्जनं विधाय भक्तमाधुर्यं प्रियतास्यं तत्समतां गतं यथा भवति तथा प्रत्यङ्गमुत्सुकतां व्रज । भक्तभक्तियोग्यं रूपं मन्मथमन्मथत्वं तिरोभाव्य प्रकटीकुरु भक्तभक्तिमात्रयोग्यं रूपम् । 'उपला शर्करापि चे'त्यमरः । जलक्रीडापक्षे शर्करया कर्पररूपया कर्परः कटाहोण्डकटाहः 'कर्परः स्यात्कपाले च शङ्खमेढ्रकटाहयो'रिति विश्वः । 'शर्करा कर्परांशेऽपी'त्यमरः । अण्डकटहांशो गङ्गा स्वर्गङ्गा प्रियाभिः सह स्नात्वा । अन्यत्स्पष्टम् । एवं शयनार्थं विज्ञाप्य शयनं कारयेदिति । एवं स्नानानां रसरूपस्य विज्ञापनपूर्वकशयनमुक्त्वा दैन्येन हरितोषणसाधनेन नवनीतमृषं विज्ञापयन्तः संयोगे वियोगवर्तनं कुर्वन्त आत्मनः शयनस्य कारितत्वाद् आत्मनश्च गोपिकादिभ्यो निजानन्ददानार्थं तद्गृहे गोपिकाप्रार्थितस्य शयनानन्तरं गतत्वाद् विरहे विज्ञापनमाहुः हेति । हा नाथ हा रमण हा करुणैकसिन्धो हा कृष्ण हा पतितपावन दीनबन्धो । संसारसागरमहौर्मिषु मज्जमानं मामुद्धर प्रणतपालक बालकृष्ण ॥ १ ॥ हा नाथ उपतापक संयोगेपि वियोगवर्तनलक्षणप्रेम्णा, हा विषादं करोमि । 'हा विषाद' इति विश्वात् । नाथ नवनीतयाचक । एवमग्रेपि । रमण रमु क्रीडायाम् । करुणैकसिन्धो । पुष्ट्याक्रमान् पुष्ट्यानेकविहाररूपरत्नप्राकारान् नवनीतमृद, करुणैकसिन्धुः, स्वरूपानन्ददानात् । कृष्ण सच्चिदानन्द । पतितानामपि पावन, किमुतास्माकम् । दीनबन्धुश्च । संसारोऽहन्ता- १. किमुतानाम् । 2450