अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 264, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १७७ यज्ञ एव हि पूर्वेण बोध्यते स्वर्गसिद्धये ॥ भाष्यप्रकाशः । इति श्रुतेः सर्ववस्तुस्वरूपोऽन्तर्यामिब्राह्मणात् सौबालश्रुतेश्च सर्वान्तर्यामी । अयमर्थः । वेदस्य या साध्यार्थपरता त्वयाङ्गीकृता सा श्रुतेः प्रवर्तकत्वानुरोधात् । तत्र श्रुतेर्यत् प्रवर्तकत्वं तत् किं यावदधिकारिणः प्रति साधारणं, किं वा असाधारणम् । आद्ये कस्यापि त्रैवर्णिकस्य नरको न स्यात् । तथा राजदण्डादेरपि लोके कोऽपि विषयो न स्यात् । रोगी च नोपलभ्येत । अवि- हितानिषिद्धाश्च निवृत्तेरपि तत एव संभवात् । तदभावे नरकादेरप्यसंभवात् । अथ पूर्वकर्म- जन्यदुरदृष्टवशादविहितादौ प्रवृत्तिः । तर्हि तादृशेन शुभादृष्टेन विहितेऽपि प्रवृत्तिसंभवान्न श्रुतेः प्रवर्तकत्वसिद्धिः । अथासाधारणम्, तर्हि तदसाधारण्यं स्वभावतो वक्तुमशक्यं, हेत्वन्तर- साहाय्येन साधनीयम् । तत्र कालादेः साधारणत्वात् तत्तज्जीवादृष्टस्य तथात्वं कल्पनीयम् । तथा सति तेनैव प्रवृत्तिसंभवान्न श्रुतौ प्रवर्तकत्वनिर्धारः कर्तुं शक्यः । अथ प्रवृत्तेः शब्दश्रव- णानन्तरभावित्वदर्शनाददृष्टादेः सहकारित्वेनैव प्रवेशो, न करणत्वेनेति विभाव्यते, तर्ह्यदृष्टसं- पादितदृष्टसामग्रीसद्भावां प्रवृत्तिरकुण्ठितैव स्यात् । अवतमसे चाक्षुषदर्शनेन सहकारिदौर्बल्येऽपि कार्योत्पत्तिनिर्धारात् । अतः कौष्ठ्यदर्शनात् फलमुखं प्रवर्तकत्वं न श्रुतेः शक्यवचनम् । तेन रश्मिः । पादयन्ति अयमर्थ इत्यादि । साध्यार्थपरतेति 'चोदनालक्षणोऽर्थो धर्मः' इति सूत्रे कार्ये धर्मे चोदना प्रमाणमिति कार्यपरत्वं वेदप्रामाण्यव्यापकमिति साध्यार्थपरतेत्यर्थः । प्रवर्तकत्वेत्यादि । अयमर्थः । 'यजेत स्वर्गकामः' इत्यादौ यजेतेत्यत्रास्त्यंशद्वयं प्रकृतिप्रत्ययरूपम् । तत्राख्यातत्वलिङ्त्वाभ्यां प्रत्ययो युक्तो भवति । ताभ्यां भावनेवाभिधीयते, विधिनिमन्त्रणेत्यादिशास्त्रात् । विधिः प्रेरणं, भावना च भवितुर्भवनानुकूलो भावकव्यापारविशेषः । सा च शाब्दीभावानार्थीभावना च । तत्र पुरुषप्रवृत्त्य- नुकूलो व्यापारविशेषः शाब्दीभावना लिङ्वाच्या । अयं मां प्रवर्तयति प्रवृत्त्यनुकूलव्यापारवानयमिति लिञ्छ्रवणे प्रत्ययात् । यथा गोशब्दश्रवणे गोत्वं प्रतीयते इति गोत्वं गोशब्दार्थः । ननु स च व्यापार- विशेषो न विध्यर्थोऽपि तु इष्टसाधनत्वं तदर्थ इति चेन्न । यागस्तु इष्टसाधनं तस्मात्तं त्वं कुरु इति सहप्रयोगात् । पर्यांयतायां तु सहप्रयोगो न स्यात् । स च लोके पुरुषनिष्ठः । वेदे तु पुरुषाभावा- च्छब्दनिष्ठ एव सः । अतो वेदः प्रवर्तयति । एतादृशप्रवर्तकत्वं तु वेदस्य साध्यार्थपरत्वे, न तु सिद्धा- र्थपरत्वे इति प्रवर्तकत्वानुरोधात्तथेत्यर्थः । साध्यार्थे प्रवृत्तिर्न तु सिद्धार्थे इति भावः । तत एवेति विहित एवेत्यर्थः । तदभाव इति अविहितनिषिद्धाचरणभाव इत्यर्थः । श्रुतेरिति विधिश्रुतेरित्यर्थः । तथात्वमिति हेतुत्वमित्यर्थः । संभवादिति प्रवृत्तिसंभवादित्यर्थः । तर्ह्यदृष्टेति अदृष्टसंपादितदृष्ट- सामग्रीसद्भावामित्यत्र सामानाधिकरण्यं सप्तम्यर्थः । तथाच तादृशसत्तासमानाधिकरणा शब्दश्रवणान- न्तरं जायमाना प्रवृत्तिरकुण्ठितैव स्यादित्यर्थः । नन्वदृष्टं तथा न प्रबलमिति कुण्ठिता प्रवृत्तिरिति चेत्त- त्राहुः अवतेत्यादि । अवहीनं तमः अवतमसं 'अवसमन्धेभ्यस्तमसः' इति सूत्रेणाच् तस्मिन्नित्यर्थः । सहकारित्वादीति आलोकसंबोगदौर्बल्येपीत्यर्थः । निर्धारादिति शब्दश्रवणमन्तरेणापि बालस्यादृष्टव- शात् स्तनपाने प्रवृत्तिदर्शनाच्चेत्यपि द्रष्टव्यम् । फलमुखेति फलमिष्टमनिष्टं च तदुपायभूतमप्रवर्त- कत्वम् । न श्रुतेरिति शब्दस्य वाक्यस्य वा वक्तव्यमिति भावः । पूर्वार्थं साधनं करणम्युडन्तम्ततो भावप्रत्ययः । फलार्थं फलत्वावच्छिन्ने योगरूढमतो मग्नमाविश्वहृद्यानि फलमित्याहुः तेनेति । द्वितीयां २३ भा० प्र० र० 177