अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 267, कुल 2600 में से
संदर्भ में पढ़ें१८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ३ सू० ३ भाष्यप्रकाशः। स्थापकधात्वर्थाभिधायकानां नामपदानां क्रियाप्रत्यायकत्वं न वदेत् । न च तत्र भावार्थपदेन भावनार्था इत्येवोच्यत इति वाच्यम् । तथा सति कर्मशब्दपदवैयर्थ्यापत्तेः । भावार्थैः क्रिया प्रतीयेतैतावत्तैव चारितार्थ्यात् । तथा 'सर्वेषां भावोऽर्थ इति चेत्' इत्यग्रिमसूत्रं च न वदेत् । क्रियाबोधकाख्यातपदानां भावार्थत्वस्य सर्वजनीनत्वेन सर्वेषां भावोऽर्थ इति संदेहस्यैवानुद- यात् । तथा अग्रिमसूत्रद्वये क्रमेण नाम्नां पुरुषानपेक्षक्रियाप्रतिपादकत्वम्, आख्यातानां तु पुरुषा- पेक्षक्रियाप्रतिपादकत्वमिति विभागं च न कुर्यात् । साध्यैकस्वभावक्रियावादे पुरुषानपेक्षक्रि- याया एवाभावात् । किंच । यागादिधर्मरूपा क्रिया यदि सर्वदा साध्यावस्थैव स्यान्न कदापि सिद्धावस्था, तदा