अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 268, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः। अतो जैमिनेरपि वेदस्य सिद्धार्थपरतैवाभिप्रेता। इदं यथा तथा भावार्थाधिकरणभाष्ये व्युत्पा- दितमाचार्यचरणैः। मयापि तद्विवरणे निपुणतरं प्रपञ्चितमिति नात्र लिख्यते। रश्मिः। सिद्धावस्थापन्नधात्वर्थबोधकघञन्तारम्भपदेन न क्रियेत्यर्थः। न च स्वर्गादिरारभ्यते येन तदपूर्वमारम्भः इति न घञन्तमिदमिति वाच्यं 'चोदनालक्षणोर्थो धर्मः' इत्यत्रानन्वयात् अपूर्वानङ्गीकारात् स्फुटीभविष्यति चैतदुपरिष्टात्। न च करणत्वोपपत्तये व्यापारावश्यकतेति शङ्क्यम्। देवताप्रीतेर्व्यापारत्वात्। न च वैयधिकरण्यम्, विषयतासंबन्धेन यजमाने सत्त्वात्तस्याः। अत इति धर्मलक्षणं चोदना तस्याश्च घञन्तारम्भपदेन विवरणादित्यर्थः। व्युत्पादितमिति अत्र स्पष्टप्रतिपत्तये तद्विवरणेन सहार्थ उपादीयते। तथाहि 'भावार्थाः कर्म- शब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते' इति सूत्रं न सर्वेषु धर्मोपि तु केषुचिदेव पदेषु इत्यत्र हेतुनिर्णयाय प्रवृत्ते। अस्यार्थः क्रियावाचिनां धातुत्वानुशासनात्सर्वधातुष्वनुगतरूपं यत्क्रियासामान्यं स भावः, सोर्थो विधेयो येषां ते भावार्थास्तादृशा ये शब्दाः ते कर्मवाचका इत्यर्थः। इदमे- वानुगतरूपं क्रियासामान्यमितिभाष्यम्। तथाच यजत्यादयो धातुत्वेन रूपेण क्रियासामान्यं यज- त्त्वादिन प्रतिनियतरूपेण क्रियासामान्यव्याप्यं यागसामान्यरूपं विशेषं प्रतिपादयन्तीत्यर्थः पर्य- वसन्नः। ननु किं क्रियाया रूपद्वयनिरूपणेन पूर्वोक्त एवार्थोस्तु सूत्रस्येति चेन्न, पुरुषक्रियामात्रस्य धर्मत्वाभावात् वेदेकसमधिगम्यातीन्द्रियस्थिरयागस्यैव धर्मत्वात्। स्थिरत्वस्य च यजतिना यागसा- मान्यबोधन एव संभवात् सामान्यस्य च नित्यत्वात्। अतो रूपद्वयनिरूपणस्यावश्यकत्वात्। ननु क्रिया प्रत्यक्षा यजतीतिप्रत्ययाभिलापयोः क्रियाविशेषं कुर्वाणं दृष्ट्वैव संभवादतीन्द्रियत्वं कथमिति चेन्न, द्रव्यदेवतासंबन्धो हि यागः। चतुर्थेऽध्याये 'यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात्' इति सूत्रे द्रव्यदेवताक्रियासमुदायस्य तल्लक्षणत्वात् द्रव्यदेवते यागस्य रूपमिति-आमिक्षाधिकरणे सिद्धत्वाच्च, तयोश्च संबन्धः प्रीतिहेतुत्वेन स्वीकारः, 'देवान् भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ' ॥ इति वाक्यात्। स च देवताया अतीन्द्रियत्वात्परात्मधर्मत्वाच्चातीन्द्रिय इति। न च देवता यजतीति प्रयोगापत्तिः। तादृशस्वीकारस्य देवनिष्ठत्वादिति वाच्यम्। तादृशव्यापारस्य फलत्वेन कर्मनिष्ठत्वात्। तेन देवदत्तो यजतीति प्रयोगानापत्तिरपि दत्तोत्तरा। ऋत्विजो यजन्तीति त्विष्टमेव योधा युध्यन्तीतिवत्। प्रैषे होतर्यजेति प्रयोगात्। अतः फलरूपो यागोऽतीन्द्रियः 'चातुर्होत्रं च सप्तम' इति क्रियायाः पुरुषावयवेषु गणनाच्च। ननु देवतोद्देशेन द्रव्यत्याग एव यागोस्तु अद्य इदं न ममेति त्यागवाक्यानुरोधाद्दानस्यापि यजत्यर्थत्वाच्चेतिचेन्न, परस्वत्वापादनरूपदानस्याप्यतीन्द्रिय- त्वात्। लोकप्रयोगस्तु न तात्त्विकः, शास्त्रदृष्ट्यभावात्। न च 'व्रीहीनवहन्ति' 'अग्नीषोमीयं पशुमालभेत' इत्यादिक्रियाणां प्रत्यक्षत्वादेतद्दृष्टान्तेन यागोपि प्रत्यक्षो भवतु इति शङ्क्यम्। मन्त्रेण चावघातो, देवपक्ष्यश्च कर्म्मः, लौकिके 'हविष्कृदेहि' 'उभौ हि वै देवानाꣲशमितारौ' इत्यादिभि- स्तदाह्वानादतीन्द्रियत्वात्। फले संपन्नेऽलौकिकक्रियायाः कर्तुश्च तिरोभावः। न च नार्हति स्वीकारो नित्यो भवितुं द्रव्यस्य व्रीह्यादेरनित्यत्वेन तज्जन्यहोमोत्तरभावित्वादिति शङ्क्यम्। 'अप-