अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 269, कुल 2600 में से
संदर्भ में पढ़ें१८२ श्रीमद्ब्रह्मसूत्रानुभाष्यम्। [ अ० १ पा० १ अ० १ सू० १ रश्मिः। श्यन् पुरोडाशं कूर्मं भूत५सर्पन्तम्' इत्याद्यर्थवादेषु द्रव्यस्यालौकिकत्वकथनात् । किं च पुरुषसूक्त- विवरणाध्याये— 'इति संभृतसंभारः पुरुषावयवैरहम् । तमेव यज्ञं पुरुषं तेनैवायजमीश्वरम्' ॥ इतिवाक्याद्द्रव्यादीनामलौकिकत्वं निराबाधम् । 'यज्ञेन यज्ञमयजन्त देवाः' इति श्रुतेश्च । ते प्रोक्षणादिसंस्कारैरिदानीं लौकिकेषु द्रव्यादिषु संनिधाप्यन्ते, मूर्तौ देवतावत् । लौकिकैरेव याग- निष्पत्तौ तु संस्कारा व्यर्थतां गच्छेयुः । अतो ये क्षणिकत्वमहं वा कल्पयन्ति ते न यागपदार्थं विदुः । अतःपरमेष धर्मो विधीयत इति सूत्रशेषार्थः । एष योऽतीन्द्रियत्वादिकर्मवान् सोऽर्थः । लौकिकस्तु संसारहेतुत्वादिनर्थ इत्यर्थः । स्थिरत्वेन विद्यमानत्वादेव विधीयते चोदनया पुरुषः प्रव- र्त्यते तत्र । प्रलये तु 'स्वाभाविकी ज्ञानबलक्रिया च' इति श्रुतेर्नित्यक्रियाया ईश्वरधर्मत्वेन तन्निष्ठता, तेन धर्मनित्यत्वादिना क्रियात्वादिजातौ पदशक्तिरङ्गीकार्या । सा च धर्मे इति तत्स्थित्यर्थं धर्मिणः प्रावाहिकी सत्ताभ्युपगन्तव्या । अहोरात्रन्यायेन कल्पस्य कल्पपूर्वकत्वाद्भात्रिरूपे प्रलये सर्वनाशात् । ये पुनर्जीवन्ति ते स्वापाच्च क्रियाप्रवाहोपरमे तस्या जातेरनाधारत्वापत्त्या कालादौ तत्स्थितिर्निराधारत्वं वा कल्पनीयम् । शाब्दबोधसमये च क्रियायाः आक्षेपलभ्यत्वं कल्पनीयं, कर्मदर्शनाद्विधृतीनां च स्वार्थे तात्पर्यराहित्यं कल्पनीयमिति वरं धर्मनित्यत्वमित्यलम् । उक्तेऽर्थे शङ्कते सर्वेषां भावोऽर्थ इतिचेत् । यदि भावार्थेभ्य एव धर्मः प्रतीयत इति उच्यते तदा सर्वे शब्दाः भावार्थाः क्रियावाचकाश्च सर्वे धातवः। कृत्प्रत्ययेन च भावोऽभिधीयत इत्यर्थः । न सर्वे शब्दाः धर्मवाचकाः धर्मस्य पुरुषार्थ- त्वात् । भावार्थशब्दानांमपिस्तु धर्मः प्रत्याय्यते परंतूदासीनतया न तु पुरुषार्थतया अतो धर्मप्रमिति- संपादने भावार्थकर्मशब्दत्वमेव न प्रयोजकं किं तु पुरुषापेक्षापीतः सापेक्षानपेक्षविभागं वदन्प- रिहरति येषां तूत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस्तानि नामानि तस्मात्तेभ्यः पराकाङ्क्षा न भूतत्वात्स्वे प्रयोगे, स्व इति षष्ठ्यर्थसप्तम्यन्तं स्वीयतेनार्थवाचि । तथाच येषां शब्दाना मर्थस्योत्पत्तौ सत्यां प्रयोग- काले रूपोपलब्धिर्जायते तानि नामानि । निरुक्ते नामाख्यात इत्यादिशब्दविभागवचनात् । अतः स्वयं नमन्ति कारकतया क्रियाशेषा वाक्ये भवन्ति नामयन्ति, स्वार्थमाख्यातार्थं प्रति, स्वार्थमाख्यातार्थप्र- योजनाय शेषभूतं कुर्वन्तीति नामसंज्ञा तेषां शब्दाना मर्थस्य परार्थत्वज्ञापिका । अतः परार्थत्वेन स्नात- श्यामाद्यावाक्यार्थबोधावसरे नामभ्यो धर्मः पुरुषार्थतया न प्रमीयत इत्ययमर्थो नामशब्दार्थकथनेन बोध्यते । तच्छ्रवणानन्तरं पुरुषाकाङ्क्षा न भवति । यथा पचतीत्युक्ते कः इत्याकाङ्क्षा, न तथा घट इत्युक्ते, नापि पाक इत्युक्ते । अतःपरं भूतत्वात्स्वे प्रयोगे इति सूत्रांशः, स्वप्रयोगकाले भूतत्वात् सिद्धत्वादित्यर्थः । अतस्तन्निपादनायं न पुरुषापेक्षेति भावः । तथाच नामभ्योऽनपेक्षत्वेन स्थिरत्वे- न धर्मप्रमितावपि पुरुषार्थत्वेन न प्रमीयत अतो भावार्थकर्मशब्दत्वं तत्स्वरूपप्रमित्युपयोग्येव न तु पुरुषार्थरूपत्वघटिततत्वमित्युपयोगीति सिद्धम् । येषां तूत्पत्तावर्थे स्वप्रयोगे न विद्यते तान्याख्या- तानि तस्मात्तेभ्यः क्रिया प्रतीयेताश्रितत्वादप्रयोगस्य । यथा नामभ्यः पुरुषार्थत्वेनाप्रवृत्तिस्तथा- ख्यातेभ्योपीति शङ्कां वारयति तुशब्दः । उत्पत्ताविति सतिसप्तमी आनन्तर्यार्थापिका । अर्थ इति विषयसप्तमी । स्वप्रयोग इति शब्दप्रयोगः । तथा चायं सूत्रार्थः, येषां शब्दाना मर्थोत्पत्त्यनन्तरमेवै