अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 274, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the Sanskrit page in pure Markdown with line markers:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८७ नच बाधितत्वात् त्यज्यत इति वाच्यम् । अज्ञातात्मज्ञानवत एव वशिष्ठादे- रंशस्याधिकारात् । नैवं किमनेनेति वाच्यम् । इत्थंभूतत्वाद्यज्ञस्य । भाष्यप्रकाशः । शक्तिनिश्चयाच्च । तथाच परमात्परब्रह्मज्ञानात्मकब्रह्मज्ञानस्य श्रुतिसिद्धकारणतया अज्ञानाद् वेदानभिज्ञा इत्यर्थः । ननु सिद्धे फले साधनान्तरस्यानुपयोगेन, उत्कृष्टस्य निकृष्टशेषताया- आसंगतत्वेन तस्याः श्रुतिसिद्धाया अनादरादज्ञानभिज्ञत्वमिति समाधिं दूषयन्ति नचेत्यादि । त्यज्यत इति नाद्रियते । अधिकारपदेनात्र मुख्याधिकारो विवक्षितः । तथाच यदि ज्ञानमात्रे- णाविद्यानिवृत्त्यादि स्याद् वशिष्ठादिर्ज्ञानी यागादिकं न कुर्यात् । यदि स ज्ञानित्वेन भवद- भिगतो न स्यात् तद्वचनानि नाद्रियेरन् । अतः पुराणादिप्रसिद्ध