अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 275, कुल 2600 में से
संदर्भ में पढ़ें१८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ किंच । कर्मफलवद् ब्रह्मफलस्यापि लौकिकत्वात् । 'य एवं वेद प्रतितिष्ठति, अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या'इति । अत्यन्ताविद्यावतो यज्ञानधिकारात् तन्निषेधार्थं ज्ञानमुपयुज्यते । भाष्यप्रकाशः । विर्भावः । तथा तादृशां यज्ञे यज्ञाधिष्ठातुर्भगवतोऽप्याविर्भावः । यथा विश्वसृजां सहस्रसमे हिरण्म- यश्शकुनिरूपस्य ब्रह्मणस्तथैव पृथुनाभिप्रभृतीनां यागेषु रूपान्तरेण । तदभावादेव नेतरेषां यागेषु तदाविर्भावः । तथा यागस्य विद्योपयोग आचार्यस्यापि संमत इति तु, सर्वापेक्षा च यज्ञादिश्रुतेरित्यादिसूत्रप्रणयनादेव गम्यते । नच मोक्षस्य जन्यत्वम् । ब्रह्मण आप्यत्वस्य वक्ष्यमाणत्वात् । अतो मुमुक्षूणां यज्ञस्यावश्यकत्वात् तत्रेत्थंभूतमधिकारं बोधयितुमयमाग्रह इति । तदेतदुक्तम् । ननु मुमुक्षूणां यज्ञा नावश्यकाः । कर्मफलस्य लौकिकत्वात् । अधिका- रिभेदेऽपि मनुष्यादिब्रह्मान्तानां शरीरवतामेव तद्भोगकथनेन तथानिश्चयात् । नच किं तेनेति वाच्यम् । 'न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति' इति श्रुत्या दुःखसंभेदकथनेन तस्य संसाररूपत्वबोधनात् । अतो मुमुक्षूणां शरीरसंबन्धस्यानाकाङ्क्षितत्वाद् यज्ञानां कारणता श्रुतिसिद्धापि नाद्रियत इत्याशङ्कायामाहुः किंच, कर्मेत्यादि । ब्रह्मफलस्येति ब्रह्मज्ञानफ- लस्य । श्रुतिस्तु तैत्तिरीयाणां भृगूपनिषदि भार्गव्या विद्यायाः समाप्तिस्था । तत्र, 'सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता य एवं वेद प्रतितिष्ठति' इति । अत्र परमे व्योम्नि रश्मिः । ॰मित्यादि । यज्ञाधिष्ठातुरिति 'यज्ञेन यज्ञमयजन्त देवाः' इत्यत्र द्वितीयान्तयज्ञपदोक्ताया यज्ञाधि- दैविकयज्ञाङ्गातिरिक्तातीन्द्रिययज्ञाधिष्ठातुः । आदिना आधिदैविकयज्ञेन समुच्चयः । विश्वसृजामिति 'विश्वसृजः प्रथमाः सत्रमासत' इतिश्रुतेः । हिरण्मयेत्यादि 'ततो ह जज्ञे भुवनस्य गोपाः हिरण्मयः शकुनिर्ब्रह्मनाम' इतिश्रुतेराविर्भाव इत्यर्थः । पृथुनाभीत्यादि एतच्च श्रीभागवते स्फुटम् । आधुनिकानामधिष्ठात्राधिदैविकानाविर्भावे हेतुमाहुः तदभावादेवेति उपनिषच्छन्दरूपकारणा- भावादेव नाधिष्ठात्राधिदैविकाविर्भावः । आचार्यस्येति व्यासस्य । जन्यत्वमिति जन्यत्वा- त्साध्यत्वं घटादिवत् सिद्धत्वेन जन्याप्यविकारिसंस्कार्येषु कर्मसु मोक्षरूपब्रह्मणः आप्यकर्मत्वेन जन्यकर्मत्वाभावान्न जन्यत्वमित्याहुः आप्यत्वस्येति 'ब्रह्मविदामोति परम्' इत्यादौ परमित्यादेः क्रियाजन्यफलशालित्वरूपाप्यकर्मत्वादित्यर्थः । वक्ष्यमाणत्वादिति अधिकरणसमाप्तावित्यर्थः । इत्थंभूतत्वादिति भाष्यं विवृण्वन्तिस्म तत्रेत्थमिति । तदेतदुक्तमिति अयमाशय इत्यारभ्य व्याख्यातं न चैवं किमनेनेतिवाच्यम् इत्थंभूतत्वाद्यज्ञस्येति भाष्येणोक्तमित्यर्थः । शरीर- वतामिति 'अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः' इति 'विदेहं सन्तमात्मानं सुखदुःखे न स्पृशतः' इति वदन्त्याः शरीरवतामेव कर्मफलयोः सुखदुःखयोर्भोगकथनेनेत्यर्थः । किं तेनेति शरीर- वतामेव तद्भोगकथनेन किं स्यादिति प्रश्नः । दुःखेत्यादि दुःखमिश्रीभावकथनेनेत्यर्थः । ब्रह्मज्ञानेति ब्रह्म च तज्ज्ञानं चेति कर्मधारयः, ब्रह्मज्ञानं च तत्फलं च ब्रह्मज्ञानफलं, तस्येत्यर्थः । परमे व्यो- मन्निति 'सुपां सुलुक्'इति सप्तम्या लुक् । परमव्योम्नीति परो मीयते ज्ञायतेऽनेनेति परमं तस्मिन् । आकाशशरीरं ब्रह्मेति श्रुतेः । श्रुतौ एकतिङवाक्यमिति प्रतिवाक्यमत्राप्यमेव इत्याशङ्केत्याहुः 188