अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 276, कुल 2600 में से
संदर्भ में पढ़ेंन च देहाध्यासस्य कारणत्वम् । ब्रह्मार्पणं ब्रह्महविरित्यादिस्मृतेः । तस्मादन्योन्यो- पयोगित्वे न कोऽपि दोषः । भाष्यप्रकाशः । प्रतिष्ठाकथनेनास्या विद्याया अत्युत्कृष्टत्वं दुर्लभत्वं च बोध्यते । विद्यापदोक्त्या फलेषूपासना- फलत्वभ्रमो निवार्यते । तत्तत्फलकथनमुखेन गृहस्थाधिकारश्च बोध्यते । तेनायमर्थः । कर्मणो विद्यायाश्च फलस्येतरतरवैलक्षण्यं प्रदर्श्य कर्मफलस्य शरीरभोग्यतया संसारात्मकत्वात् तादृशफलजनकत्वेन तस्य विद्याजनकत्वमनादृत्य यदि कर्म त्यज्यते, तदा तस्य दोषस्य ब्रह्मविद्यायामपि तौल्यात् तस्या अपि त्याज्यत्वापत्तिः । अथ यद्यधिकारजाघन्यात् त्यज्यते, तदा तूक्तश्रुत्या विद्यासाहित्यबोधनेन जाघन्यस्य निवारितत्वान्न कर्मणस्त्याग उचितः । यदिच विद्यावत्त्वेऽपि देहाध्यासस्यान्निवृत्तत्वात् तस्यैव कर्मकारणत्वमिति विभाव्यते, तदा तु ब्रह्मार्पण- मित्यादिस्मृत्या, 'य एवास्मि स सन् यजे' इत्यादिश्रुत्या चाध्यासस्य कारणतानिवारणात् तासामेव विरोध इति वेदानभिज्ञत्वमनिवार्यमेवेत्यर्थः । एवं विद्यास्वातन्त्र्यवादिशांकरमतमपास्यान्येषामे- कदेशिनां संग्रहायाहुः तस्मादित्यादि । वेदानभिज्ञत्वस्य विद्यास्वातन्त्र्यवादिन्येव पर्यवसानात् कर्मणां विद्याकारणत्वस्योपनिषदश्च कर्मसहकारित्वस्य श्रुत्यैव बोधनान्मूर्खोद्भावित इतरेतराश्रयदोषोऽपि व्यक्तिभेदादेव निवृत्तः । नच छान्दोग्ये औषस्त्ये अविदुषामपि रश्मिः । दुर्लभत्वमिति भक्त्येकलभ्यत्वात् शुद्धभावप्रसादाच्च । उपासनाफलत्वभ्रम इति । 'उपास्तिं मन्यन्ते मधुमथनभक्तिं निजकृता- र्थतां तन्नोपास्यं परमपुरुषं चापि सुविदः । द्वयोः सारूप्यात्क्रमहतकृते मानसगतं मुदा भक्तेर्हंसं प्रकटमकरोद्विठ्ठलकृती ॥' इति भक्तिहंसात् । गृहस्थादीत्यादि प्रतिष्ठाऽन्नवत्त्वान्नादत्वप्रजापशुवत्त्वानि गृहस्थाधिकारं बोधयन्ति ब्रह्मवर्चसं ब्रह्मचर्याधिकारं, कीर्तिस्तु 'मोक्षकाम उदारधीः' इतिवाक्यात् वानप्रस्थसंन्यासाधिकारमिति विभागः । प्रदर्श्येति¹ तयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेवोप- भुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिस्थावरान्तेषु प्रसिद्धे । अतएवानुष्ठेयफलविलक्षणं मोक्षाख्य- मशरीरत्वं नित्यमिति भाष्येण प्रदर्शयेत्यर्थः । तस्येति शरीरभोग्यस्य प्रतिष्ठादेः फलस्य संसारात्मकस्य यज्जनकत्वं तस्येत्यर्थः । अत्यन्तेत्यादिभाष्यं विवरीतुमाहुः अथ यदीत्यादि । विवृण्वन्ति तदा त्वि- त्यादि । तदा त्वत्यन्ताविद्यावतो यज्ञानधिकारमालोच्य ज्ञानरहितस्याधिकारनिषेधार्थं यज्ञे ज्ञानमुपयु- ज्यते इति वदन्त्या उक्तश्रुत्या तथेत्यर्थः । न च देहेत्यादि भाष्यं विवृण्वन्ति यदि चेत्यादि । य एवे- त्यादि यः प्रकटश्चिदंशोऽस्मि स एव सन् यजे यागं कुर्वे इत्यर्थः । व्यक्तिभेदादिति अयमर्थः । न वयं कर्मस्वरूपज्ञाने ब्रह्मज्ञानस्य कारणत्वं ब्रूमः । न वा ज्ञानस्वरूपज्ञाने कर्मस्वरूपज्ञानस्य येन हलन्त्यमिति न्यायेनान्योन्याश्रयो दोषाय भवेत् किंतु ब्रह्मज्ञाने यज्ञानां कारणत्वं यज्ञे चात्मभिदाबाधकं ज्ञानं जीव- स्वरूपज्ञानं सहकारिकारणमिति विषयभेदभिन्नज्ञानव्यक्तिभेदादित्यर्थः । न च जिज्ञासाधिकरणस्थैर्किंचौप- निषदेत्यादिभाष्येणोक्तार्थश्लोकैः पुनरुक्तिः शङ्क्या तस्य ब्रह्मजिज्ञासायाः आवश्यकत्वसाधनपरत्वात् । अत्र तूत्तरवादिदूषणाय तदुपक्षेपस्यावश्यकत्वाच्च । औषस्त्येति तृतीयप्रपाठक इत्यर्थः । चक्रसापल्यमुप- १. प्रदर्श्य इति प्रमादः ।