अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 281, कुल 2600 में से
संदर्भ में पढ़ें१९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ३ सू० ३ शास्त्रारम्भस्तु प्रथमसूत्र एव समर्थितः । तस्मात् समवायिकारणत्वमेवानेन भाष्यप्रकाशः । प्रकृतमनुसरामः । ननु भवन्मते सर्वस्य वेदस्य सिद्धार्थपरत्वेन सिद्धरूपब्रह्मप्रति- पादकत्वे संदेहाभावान्न तदर्थं शास्त्रारम्भो वक्तुं शक्यः । ज्ञानकर्मसमुच्चयस्याप्यङ्गीकारेण कर्मण्यपि गौणतात्पर्यस्य विद्यमानत्वान्न तदर्थमपि । ब्रह्मणः कारणतायास्तेषु तेषु रूपेषु पर्यायेणाङ्गीकरिष्यमाणत्वान्न विष्णुशिवादिव्यतिरिक्तस्य ब्रह्मतन्निरासार्थम् । अभिन्न- निमित्तोपादानवादिनो यावन्तस्तैः सर्वैरपि जन्मादिसूत्रविषयवाक्यविचारेणैव सर्वविश्वकारण- तायाः समर्थनान्न तद्विशेषनिर्धारणार्थमपीति भवन्मते शास्त्रारम्भवैयर्थ्यम् । नैवमन्यमते । तत्तदन्यस्मिन् वेदान्ततात्पर्याभावसमर्थकतया सार्थक्यादिति शङ्कायामाहुः शास्त्रेत्यादि । प्रथमसूत्र इति । तत्र शेषषष्ठीसमर्थनस्थले, नच गौणतात्पर्यजिज्ञासार्थं वेत्यादिना । तन्मया विवृतं, केन प्रकारेणेत्यारभ्य दर्शनादितीत्यन्तेनेति ततो बोध्यम् । सिद्धमाहुः तस्मादित्यादि । शास्त्रारम्भस्य प्रथमसूत्र एव समर्थितत्वाद् द्वितीयसूत्रविषयवाक्ये, यतो रश्मिः । प्राण एव ऋग्यजुःसामार्थवाङ्गिरसो ब्रह्मब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणव' इति । 'अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव स सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्य- भिमृशति तस्मादुच्यते सूक्ष्मम् । अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एव गर्भजन्मव्याधिजरामरण- संसारमहाभयात्तारयति त्रायते तस्मादुच्यते तारमिति' । तथा महानारायणोपनिषदि 'तन्नो रुद्रः प्रचोद- यात्' इत्युक्त्वा 'ईशानः सर्वविद्यानाम्' इति श्रूयते, जाबालेच 'रुद्रस्तारकं ब्रह्म व्याचष्टे' येनासावमृती- भूत्वा मोक्षीभवतीति शुक्लोपाधिना मोक्षदातृत्वं विस्पष्टं श्रूयते । पुराणे ऽपि भागवते चतुर्थस्कन्धे ब्रह्मकृतशिवस्तुतौ 'यत्तद्ब्रह्म निरन्तरम्' इति अष्टमे मोहिनीस्वरूपदर्शनानन्तरं भवानीं प्रति भववाक्यं 'अहं कलानाम्प्रथमो विमुञ्चे' इति पुनश्चतुर्थस्कन्धे रुद्रगीते 'शक्तित्रयसमेताय मीढुषेऽहंकृतात्मने' इति कर्तृकरणकर्मशक्तित्रयसमेताहंकाररूपेण सर्वदेहीश्वरत्वं अन्यत्रापि द्रष्टव्यम् । तत्रैव प्रचेतसां मोक्षदातृत्वं 'इदं विविक्तं जप्यं पवित्रं मङ्गलं परम् । निःश्रेयस्करं चापि श्रूयतां तद्वदामि वः' ॥ इति शिववाक्यमिति । तदर्थमिति गौणत्वेन सिद्धधर्मज्ञानार्थमित्यर्थः । ब्रह्मण इत्यादि अस्य तत्पदेनाप्यन्वयाद्रूपेभ्यो भेदः । तेष्विति सच्चिदानन्देष्वित्यर्थः । तत्तु जन्माद्यधिकरणसमन्वया- धिकरणाभ्यां सद्रूपे लक्षणं योजितम् । ईक्षत्यधिकरणे च चिद्रूपे लक्षणं योजयिष्यन्ति । आनन्दमया- धिकरणे चानन्द इति कथं तेषु तेषु कारणतेति चेन्न 'सत्त्वं रजस्तम' इत्यस्य सुबोधिन्यां 'सद्रूपेण रजः आनन्देन तमः' इति निरुक्तेः । ननु किमतो यद्येवं मैवं 'सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः' इति तत्तद्गुण- संबन्धे तत्तद्रूपतोत्पत्तेः सामञ्जस्यात् । तथा च सद्रूपनिर्गतसत्त्वतनुर्विष्णुरिति सद्रूपे कारणतायो- जनं विष्णावेव योजनमेवमन्यत्रापि न दोषः । तन्निरासेति कारणताविशेषेऽसमवायित्व इत्यर्थः । शास्त्रारम्भ इति शास्त्रं सूत्रं तदारम्भवैयर्थ्यम् । तत्तदित्यादि तेभ्यस्तेभ्यो निर्गुणसगुणब्रह्म- विशिष्टविष्णुशिवपुंरुत्तमेभ्योऽन्यस्मिन्नित्यर्थः । संज्ञोपसर्जनीभूतत्वाभावात्साम्यादि । ननु मृदो घट इतिवत् यत इति पञ्चम्या समवायित्वनिर्णयो भविष्यतीति चेत्तत्राहुः द्वितीयेत्यादि । यदु उक्तस्य 194