अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 282, कुल 2600 में से
संदर्भ में पढ़ेंसूत्रेण सिद्धम्। ननु कारणत्वमेवास्तु ब्रह्मणः। किं समवायिकारणत्वेन। विकृतत्वं च स्यात्। अनर्थरूपत्वेन कार्यस्यायुक्तता च। तस्मादनारम्भणीयमेवैतत् सूत्रमिति भाष्यप्रकाशः। वेत्यादेः कारणतामात्रबोधनेऽपि चारितार्थ्येन, 'यत् प्रयन्त्यभिसंविशन्ति' इत्याधारतामात्र- बोधनेऽपि चारितार्थ्येन, 'सदेव सौम्येदमग्र आसीत्' इत्यत्रापि, तत्तेजोऽसृजतेत्यादिना कर्तृ- त्वस्यैवासंदिग्धतया उपादानत्वं केवलस्य वा शरीरद्वारा वेति संदेहस्यानपायात् । सौत्रस्य योनिशब्दस्यापि कारणमात्रवाचकत्वेन प्रमाणाबोधकत्वादुपादानत्वनिर्धारणासमर्थत्वाच्चेतः पूर्व- सूत्रयोरुपादानत्वस्यासिद्धत्वादनेनैव सूत्रेण युक्तिनिर्देशात् तत्सिद्धिरित्यर्थः । नन्वत्रोपादान- पदं परित्यज्य समवायिपदेन कुतो व्यवहार इति चेदुच्यते । लोके उपादानपदेन कर्तृक्रि- यया व्याप्तस्य परिच्छिन्नस्यैवाभिधानदर्शनात् । 'प्रकृतिर्ह्यस्योपादानम्' इति, 'पुरुषस्तदुपादान- मात्मानं लीलयाऽसृजत्' इति श्रीभागवतेऽपि भगवता मैत्रेयेण च तादृश एवोपादानपदस्य प्रयुक्तत्वाच्चेति जानीहि । अत्र ब्रह्मस्वरूपस्य समवायित्वममन्वानाः प्रत्यवतिष्ठन्ते नन्वित्यादि । अयमर्थः । समन्वयसूत्रे ब्रह्मस्वरूपस्य समवायित्वायाग्रहो यः क्रियते, स न पूर्वसूत्रोक्तकारणतासमर्थ- नार्थः । शास्त्रयोनित्वेनैव समर्थितत्वात् । नापि शास्त्रयोनित्वसमर्थनार्थः । त्वया तथाऽ- नङ्गीकारात् । किं तु कारणत्वे विशेषान्तरस्यापि बोधनार्थः । स न युक्तो विकृतत्वादि- -रश्मिः । ध्वंसरूपत्वेन कपाले घटो ध्वस्त इतिवत् ब्रह्मणि जगल्लीनमिति प्रतीत्या ब्रह्मणः समवायित्व- मस्त्विति चेत्तत्राहुः यत्प्रयन्तीत्यादि । पूर्वं सदेव घट इति प्रतीतिवत् सदेवेदमिति श्रुत्या तद्भ- विष्यतीति किमनेनेति चेन्नेत्याहुः सदेवेत्यादि । योनिशब्दादपि न निर्णय इत्याहुः सौत्रस्ये- त्यादि । प्रमाणेत्यादि । समवायित्व इत्यादि । समवायस्य द्वितीये दूषणात्तदस्तित्वप्रयुक्तं सम- वायित्वमपि न वक्तुं शक्यमित्युपादानपदमत्र भाष्ये वक्तव्यमिति पृच्छति नन्वत्रेत्यादि । कुतो व्यवहार इति अस्य मीमांसाशास्त्रस्य पृथक्त्वान्निमग्नवत् कुतो व्यवहार इति । ननु प्रश्नश्चेत् यदीत्यर्थः । उच्यत इति न घटत इत्युच्यत इत्यर्थः । लोक इति स्मृतौ । परिच्छिन्नस्यै- वेति सूत्रमृत्पिण्डादिरूपतूलांशमृदंशादेरेवेत्यर्थः । अन्यथा सूत्रमृत्पिण्डादिभावमनापन्नैरपि तुला- दिभिः पटघटाद्युत्पद्येत इति भावः । ननु नैयायिकैः परिच्छिन्नेऽपि समवायित्वव्यवहारः क्रियते व्यासचरणैरपि समन्वयादित्युक्तत्वाच्च कैतादृशाक्रोशः प्रसिद्ध इत्यत आहुः प्रकृतिरित्यादि । स्वव्यतिरेकेणासृज्यत्वादात्मानमिति । तादृश इति परिच्छिन्नप्रधाने परिच्छिन्नपुरुषावतारं चेत्यर्थः । जानीहीति तथा च ब्रह्मणोऽपरिच्छिन्नत्वमपीति नोपादानपदप्रयोग इति भावः । यः परिच्छि- न्नोऽंशः स उक्तः । समवायश्च तादात्म्यमित्युक्तम् । उपलक्षणमेतत् दूषितेपि प्रसिद्धिप्राचु- र्यात्तत्पर्याये प्रयोगानर्हत्वं नेति भाष्येण ज्ञाप्यते इत्यस्य । अमन्वाना इति नैयायिकाः । यदाहुः 'संसारमहीरुहस्य बीजाय' निमित्तकारणाय इत्यर्थ इति मुक्तावल्यां विश्वनाथाः । शास्त्रेत्यादि । सूत्रांशेनेत्यर्थः । त्वयेति सिद्धान्तिनेत्यर्थः । विकृतत्वमित्यादि अयुक्तता चेत्यन्तं भाष्यं विवृण्वन्ति स नेत्यादि । अत इति कार्यस्यानर्थरूपत्वेन तत्समवायित्वस्य ब्रह्मण्युपयुक्तताया