अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 285, कुल 2600 में से
संदर्भ में पढ़ें१९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ३ सू० ३ नन्वेवं निःसंदिग्धत्वात् कथं सूत्रप्रवृत्तिः । उच्यते । अस्थूलादि- वाक्यान्यपि सन्ति सर्वत्र प्रपञ्चतद्धर्मवैलक्षण्यप्रतिपादकानि । ततोऽन्योऽन्य- विरोधेनैकस्य मुख्यार्थबाधो वक्तव्यः । तत्र स्वरूपापेक्षया कार्यस्य गौणत्वात् प्रपञ्चरूपप्रतिपादकानामेव कश्चित् कल्पयेत् । तन्माभूदिति जन्मादिसूत्रवत् समन्वयसूत्रमपि सूत्रितवान् । तथाचास्थूलादिगुणयुक्त एवाविक्रियमाण एवात्मानं करोतीति वेदान्तार्थः संगतो भवति । विरुद्धसर्वधर्माश्रयत्वं तु ब्रह्मणो भूषणाय । भाष्यप्रकाशः । वाक्यान्यादिपदेन संगृह्यन्ते । अतः पूर्वसूत्राकाङ्क्षापूरणायेदं सूत्रमावश्यकमित्यर्थः । पुनश्चोदयति नन्वेवमित्यादि । एवमिति पुरःस्फूर्तिकयथार्थश्रुतार्थग्रहणे । तथाच सूत्रकारो हि वेदान्तार्थं दुर्बोधमाकलयंस्तन्त्रान्तेष्वमृषीणामपि शुक्रादीनां बुद्धिमोहमावचार्य लोकाननुजिघृक्षुस्तदर्थं व्यक्तीकर्तुं प्रवृत्तो यद्येवं समवायित्वमंसदिग्धमेव जानीयात् सम- न्वयसूत्रं न प्रणयेत् । अतः सूत्रप्रवृत्तिरेव समवायित्वाभावं बोधयतीत्यर्थः । अत्रप्रवृत्तिमुप- पादयन्तः समादधते उच्यत इत्यादि । अर्थस्तु निगदेनैव व्याख्यातः । जन्मादिसूत्रवदिति यथा जन्मादिसूत्रं कर्तृत्वादधर्मनिर्धारणेन निर्विशेषमात्रत्वनिराकरणार्थं तथेदमपि समवायि- त्वनिर्धारणेन तदर्थं, न तु सांख्यं निराकर्तुम् । तस्याग्रे वक्ष्यमाणत्वादिति भावः । एतेन पूर्वचोदितस्य द्वितीयदूषणस्यापि निवृत्तिं बोधयन्ति तथाचेत्यादि । संगतो भवतीति । उक्तदूषणसोद्भूतत्वादसंदिग्धो भवति । तथा चैतत्सूत्राभावे उक्तसंदेहानपायात् तदर्थं सूत्र- प्रवृत्त्या समवायित्वमावश्यकमित्यर्थः । नन्वविक्रियमाणस्य समवायित्वं काल्पनिकम् । कल्पना तु लोकाविरुद्धैव प्रामाणिकसमाजे शोभते । तत इदमसंगतमित्याशङ्कायामाहुः विरुद्धेत्यादि । भूषणायेति 'तदेजति तन्नैजति' । 'आसीनो दूरं व्रजति शयानो याति सर्वतः' । 'अपाणिपादो जवनो ग्रहीता' इत्याद्यनेकश्श्रुतिसिद्धत्वाद् भूषणाय । ब्रह्मणः श्रुत्येक- समधिगम्यत्वस्य सर्वेषामेव संमतत्वादित्यर्थः । ननु फलार्थं सर्वः प्रवर्तते । तच्चेह पुरुषशेषत्वात् । तदेहिंकं मोक्षरूपं वा यद् यत्सा- रश्मिः । अन्तर्यामिपरत्वे पूर्वतौल्यम् । निगदेनेति अभिधानेनैवेत्यर्थः । तदर्थमिति निर्विशेषमात्रता- निराकरणार्थमित्यर्थः । किंचिन्निराचक्षते न त्वित्यादि । प्रकृतिः समवायिनीति सांख्यमित्यर्थः । तस्याग्र इति सांख्यनिराकरणस्य चतुर्थपाद इत्यर्थः । पूर्वचोदितस्येति समवायित्वं यज्ञिपि- ष्यते इत्यादिनोक्तविकल्पस्येत्यर्थः । धातूनामनेकार्थत्वात् । तज्ज्ञापयत्याचार्य इत्यत्र ज्ञा नियोग इत्यस्य ज्ञानार्थत्वं यथा, न तु ज्ञा अवबोधने इत्यस्य, नापि ज्ञाने ज्ञापने च वर्तमानस्य ज्ञपेः प्रयोगः । पूर्वस्य मारणतोषणनिशामनेषु ज्ञा इत्यनेन मित्त्वाद् हस्वे ज्ञपेस्तु 'शपामिप्रा' इत्यनेन मित्त्वात् 'मितां ह्रस्वः' इत्यनेन हस्वे ज्ञपयतीति प्रयोगात् । निशामनं ज्ञानम् । उद्भूतत्वादिति मैषं सर्वैरित्यादिभाष्येणोद्भूतत्वादित्यर्थः । उक्तेत्यादि उपादानत्वे कर्तृत्वे च संदेह इत्यादिभाष्योक्त- संदेहानपायादित्यर्थः । नैयायिकः शङ्कते नन्वित्यादि । तस्यैवेत्यादि 'फलं च पुरुषार्थत्वात्' इति सूत्रादित्यर्कः । इदं तृतीयस्य तृतीयाधिकरणे चिन्तितम् 'द्रव्यगुणसंस्कारेषु बादरिः' इत्यत्र । तत्र 198