भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 286, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 286

भाष्यप्रकाश-रश्मि-परिबृंहितम् । १९९ ' किंच । अन्यपदार्थसृष्टौ वैषम्यनैर्घृण्ये स्याताम् । कर्माधीनत्वे त्वनी- शता । ततः कर्तृत्वमपि भज्येत । ततः सर्वमाहात्म्यनाश एव स्यात् । नन्वेवमेवास्तु, अपवादार्थत्वात् । रज्जुसर्पवदयुक्तार्थकथनेऽपि न दोषः । भाष्यप्रकाशः । भीष्टं तत् सर्वं, ब्रह्मोपासनया वा तज्ज्ञानेन वा सर्वस्य यथाधिकारं ब्रह्मणि सर्वकर्तृत्वं सर्वेश्वरत्वादिकं चानुसंदधानस्य सेत्स्यत्येव । नच समवाय्यनुसंधानस्यावश्यकत्वम् । शरी- रद्वारापि तदङ्गीकारे पूर्वोक्तमाहात्म्यानपायेन तथानुसंधानस्यानावश्यकत्वात् । अतोऽपार्थ- प्रयासात् तव मते एतत्क्षत्रवैधर्म्यमेवापद्येतेत्यत आहुः किंचेत्यादि । तत इति अनीशत्वे । तत इति कर्तृत्वभङ्गे । तथाच वैषम्यादिवारणेन कर्तृत्वादिसमर्थनार्थमप्यावश्यकत्वाद् वैधर्म्यमतस्त्वपि निर्दोषनिखिलगुणगणालंकृतब्रह्माङ्गीकर्तुरावश्यकमित्यर्थः । अत्र विरुद्धधर्माश्रयत्वमसहमानो निर्विशेषमात्रवादी पुनः शङ्कते नन्वेत्यादि । अयमर्थः । अस्तु कर्तृत्वादिभङ्गः । अस्थूलादिवाक्यैः स्वरूपस्य निर्विशेषत्वे निश्चिते तेषां कर्तृत्वादीनामविद्याकल्पितत्वेनापवादार्थत्वात् । न चैवं मिथ्यार्थकथने वाक्यप्रामाण्यभङ्गः । यथा अतिचपले बाले तस्य भीत्युत्पादनाय रज्जुः सर्प इति प्रदर्श्यते, ततो बिभीते तस्मिन् रज्जुरियमिति स्वरूपं कथ्यते । तथा संसारासक्तेषु भीत्यर्थं माहात्म्यं कर्तृत्वफलदातृत्वनिया- मकत्वादिरूपमुच्यते । ततो वैराग्याद्युत्पत्तौ स्वरूपं बोध्यत इति रज्जुसर्पवदयुक्तार्थकथनेऽपि न दोषः । तत्र तात्पर्याभावात् । अभेदं सर्वं यदयमात्मेत्यादीनां स्वार्थत्यागादसांगतत्यं विभाव्यते । तदबोधात् । गीतायां विश्वरूपं पश्यता पार्थेनैव सर्वव्याप्त्या सर्वत्मकत्वेन तद्दर्शनेष्वपादसंगत्यभावादिति । रश्मिः । स्यकपालादिद्रव्यं, अरुणादिर्गुणः, अवघातप्रोक्षणादिः संस्कारः । एतेषु त्रिष्वेवोपकारित्व- रूपं शेषत्वम् । फलपुरुषकर्मसु न शेषत्वमुपकारित्वाभावात्, इति बादरिर्मन्यते, जैमिनिस्तु पारार्थ्यं शेषलक्षणमुररीचकार उपकारित्वस्य प्रधाने स्वामिन्यपि दर्शनेनातिव्याप्तत्वादिति । तथा च 'कर्माण्यपि जैमिनिः फलार्थत्वात्', 'फलं च पुरुषार्थत्वात्', 'पुरुषश्च कर्मार्थत्वात्', इति सूत्रत्र- यादेतेष्वपि पारार्थ्याच्छेषत्वं ज्ञेयम् । एवकारेण प्रमाणप्रमेयसाधनव्यवच्छेदः । शरीरद्वारापीति नव्यमते विश्वमेश्वरशरीरमित्यनादरेऽपिशब्दः । एवं द्वितीयोऽपिशब्दः । अनावश्यकत्वादिति प्राचां नैयायिकानामिव प्राच्यस्वाप्यनावश्यकत्वादित्यर्थः । नैयायिकयुक्तिपराहतत्वादनावश्यकत्वा- दिति वा । अनीशत्व इति सार्वविभक्तिकस्तसिरिति भावः । कर्तृत्वं 'स्वतन्त्रः कर्ता' इत्यनुशासनादपरि तदभावे भज्येत । तथापीति । नैयायिकस्यापीत्यर्थः । तेन रामानुजा अप्याशिषा ज्ञेयाः । अत्रेत्यादि ग्रन्थे नैयायिकाशङ्काया उक्तत्वात् पुनरिति । रज्जुः सर्पवदिति भाष्यं विवृण्वन्ति स्म न चैवमिति । तत्रेति कर्तृत्वादावयुक्तार्थकथन इत्यर्थः । सर्वमित्यादि भाष्यं विपरीताहुः अभेदमित्यादि । अस्तेति आरोपापवादाद्रेत्यर्थः । सर्वव्याप्त्येति पूर्वं 199