अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 289, कुल 2600 में से
संदर्भ में पढ़ें२०२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ३ सू० ३
पवादपरत्वेन व्याख्यातृभिर्वेदान्तास्तिलापः कृता इति मन्यामहे । सर्व- वाक्यार्थबाधात् । यथा निर्दोषपूर्णगुणविग्रहता भवति तथोपरिष्टाद् वक्ष्यामः । ननु पुरुषार्थार्थानि शास्त्राणि । इदं च शास्त्रं मोक्षरूपपुरुषार्थसाधकम् । मोक्षश्चाविद्यानिवृत्तिरूप इति युक्तम् । अविद्या चाज्ञानं ज्ञानेनैव नश्यति । ततो ज्ञानोपयोगित्वेन व्याख्यातव्ये वेदान्तेऽध्यारोपापवादव्यतिरेकेण व्या- ख्यानमयुक्तम् । अतो यथाकथंचिद् व्याख्यानेऽपि पुरुषार्थसिद्धेर्न कोऽपि दोष भाष्यप्रकाशः । इत्यादि । ननु ब्रह्मणः प्रपञ्चसमवायित्वमयुक्तम् । कार्यस्य कारणसाजात्यनियमेन प्रपञ्चगतदोषाणां ब्रह्मण्य्यापातादित्याकाङ्क्षायामाहुः यथा निर्दोषेत्यादि । उपरिष्टादिति अन्तस्तद्धर्माधिकरणे । अपवादार्थत्वे उ