अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 290, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २०३ इति चेत् । न । पुरुषार्थस्य शास्त्रार्थस्य वा स्वरूपं शास्त्रैकसमधिगम्यं, न स्वबुद्धिपरिकल्पितम् । अतः स्वबुद्ध्या शास्त्रार्थं परिकल्प्य तत्र वेदं योजयन्तो महासाहसिकाः सद्भिरुपेक्ष्याः । पुरुषार्थः पुनर्यथा वेदान्तेष्ववगतः । 'ब्रह्म वेद ब्रह्मैव भवति', 'ब्रह्म- भाष्यप्रकाशः । निषेधन्तः प्रामाणिकप्राचीनरीतिमाहुः नेत्यादि । अयमर्थः । यदुक्तं, पुरुषार्थार्थानि शास्त्राणी- त्यादिना, तदङ्गीकुर्मः । परंतु पुरुषार्थः शास्त्रार्थश्च कीदृशो विवक्षित इति विचारणीयम् । किं स्मार्त उत श्रौतः ? । तत्र नाद्यः । विरुद्धानां शास्त्राणां व्यासेनैव निराकरणात् । वाक्या- भासयुक्त्याभासावष्टम्भाः पूर्वपक्षवादिन इहोत्तिष्ठन्ति । तत्र पदवाक्यप्रमाणज्ञेनाचार्येण वेदान्त- वाक्यानां ब्रह्मावगतिपरत्वप्रदर्शनाय वाक्याभा