अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 301, कुल 2600 में से
संदर्भ में पढ़ें२१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० ४ भाष्यप्रकाशः। इत्यभियुक्तोक्तेः। तत्र स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः। प्रकृतार्थसाधकत्वमुपोद्घातः। उपजीव्योपजीवकभावो हेतुता। सा सापेक्षत्वादुभयसंग्राहिका। प्रतिबन्धकीभूतजिज्ञासा- निवृत्ताववश्यवक्तव्यत्वमवसरः। निर्वाहप्रयोजकता निर्वाहकत्वम्। एकजातीयकार्यजनकत्वमेक- कार्यम्। ईदृशं च विभाजकमात्रमतत्सादृश्यधर्माणां मुमुक्षानर्हत्वादिरूपाणां निरूपणप्रयोजकजिज्ञासाविषय- तावच्छेदकत्वविरहेऽपि न क्षतिः। उदाहरणं त्वाधारनिरूपणेन स्मृतसापेक्षस्योपेक्षानर्हत्वज्ञानेन किमाधेयमिति जिज्ञासायाधेयनिरूपणमिति। प्रकृतार्थेत्यादि। तदुक्तं 'चिन्तां प्रकृतसिद्ध्यर्थामुपो- द्घातं विदुर्बुधाः' इति। प्रकृतसिद्ध्यर्था प्रकृतोपपादकत्वविषयिणी किमसौपपादकमिति चि- न्तामुपोद्घातसंगतिलनिर्वाहिकां विदुरित्यर्थः। तादृशजिज्ञासामादायैवोपोद्घातत्वे लक्षणसमन्वयात्। अर्थसाधकत्वं च उपपादकत्वं तच्च निर्वाहकत्वं तच्च क्वचित् तद्घटकतया क्वचित्तदघटकतयेति। तत्राद्यं विशिष्टपरामर्शत्वस्यानुमितिजनकतावच्छेदकत्वं परायुष्यमानलिङ्गलिङ्गिपरामर्शान्यतरव्यापार- कज्ञानकरणकं ज्ञानमनुमितिरित्यनुमितिलक्षणघटकतयानुमितिलक्षणोपपादकम्। परामर्शज्ञानेन विना परामर्शघटितलक्षणानिर्वाहादिति परामर्शव्यवस्थापने उपोद्घातः संगतिः। द्वितीयं तु सामान्यप्रत्यासत्तेरनुमितिपूर्वं नियमतो विशिष्टपरामर्शनिर्वाहकत्वया विशिष्टपरामर्शत्वावच्छिन्ना यानु- मितिकारणता तन्निर्वाहकत्वादेव परामर्शघटितानुमितिलक्षणोपपादकत्वं न त्वनुमितिलक्षणघटकत- येति द्विविधमुपपादकत्वम्। उपजीव्येत्यादि इयं विवेचिता। ननु कार्यत्वं वोढात्वं व्याहनिष्यतीत्याकाङ्क्षायां हेतुतापदमजहत्स्वार्थवृत्त्या कार्यत्वकारणत्वोभयसाधारणेन केनचिद्रूपेण तदु- भयपरमिति नाधिक्यमित्यनुवदन्ति सा सापेक्षेत्यादि। प्रतिबन्धकीत्यादि। अत्र किमि- दानीं वक्तव्यमिति जिज्ञासाजनकज्ञानविषयत्वमादाय लक्षणसमन्वयः। यद्यपि तादृशजिज्ञासा- विषयतायां जिज्ञासाविवृत्तिघटितं नावच्छेदकमिति तेन रूपेण संगतित्वं नास्ति अपि तु निवृत्त्युपलक्षिततत्कालवक्तव्यत्वरूपेणैव तथापि न क्षतिः। यादृशस्य संगतित्वं तादृशस्यैव विभाजकत्वमिलनियमात्। जिज्ञासाविवृत्तेर्विभाजकधर्मघटकत्वे बाधकाभावादिति। इयं च प्रत्यक्षोत्तरोपमाने संगतिः। अत्र प्रतिबन्धकीभूतानुमान जिज्ञासा किमनुमानमिति तस्या अनुमाने उपमानापेक्षया प्राथमिकजिज्ञासाविषयत्वप्रयोजकबहुवादिसंमतत्वकथनेन नानुमाननिरूपणाद्विष- यजिज्ञासानिवृत्तौ सत्यामुपमानमवश्यं वक्तव्यमिति जिज्ञासया किमिदानीं वक्तव्यमिति जिज्ञासया वो- पमाननिरूपणात्। निर्वाह्येत्यादि। उदाहरणं तु व्याप्तिपक्षधर्मतयोर्ज्ञानस्यानुमितिजनकत्वेन तादृशव्याप्तिनिरूपणानन्तरं किमनुमितिनिर्वाहप्रयोजकमिति जिज्ञासया पक्षधर्मतानिरूपणमिति। पक्षधर्मताज्ञानं कारणमिति पक्षधर्मता निर्वाहप्रयोजिका। एकजातीयेत्यादि। उदाहरणं तु अनुमानस्येश्वरसिद्ध्यपवर्गयोः संगतिस्त्रैकजात्यं येन केनापि धर्मेणेश्वरसिद्ध्यपवर्गाख्यं कार्यं तज्जनकत्वमनुमान इति। सामान्यत एकजातीयाने ककार्यजनकत्वज्ञाने ईश्वरसिद्ध्यानन्तरं किम- न्यकार्यजनकत्वमिति जिज्ञासायापवर्गरूपकार्यनिरूपणात् सामान्यलक्षणसमन्वयः। अथा- नन्दमहेस्तु नैयायिकेनेश्वरसिद्ध्यानन्तरं शक्तिं निरस्य परमप्रयोजनं त्वनुमानस्यापवर्ग इत्यनेने- श्वरसिद्ध्यपवर्गयोरनुमानजन्यत्वलक्षकैककार्यत्वसंगतिः सूचिता। एकस्य कारणकार्यतयाः तदर्थ- १. विशिष्टे बाधिते निर्विशेषाणमुपसंक्रामति विधी न इतिवत्। एवं चोपमानसिद्धवक्तव्यत्वे संगतिलत्वम्। 212