अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 302, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २१३
भाष्यप्रकाशः ।
कार्यत्वम् । इदं च संगत्यभिधानमात्रोपयोगित्वात् स्वरूपकथनमात्रम् । लक्षणं तु प्रसङ्गाद्य- न्यतमत्वमेव । तेन पूर्वस्नेहसाधनत्वाधाराधेयभावादावव्याप्तावपि न दोष इति नैयायिका
रश्मिः ।
त्वादित्युक्तम् । इदानीं भवानन्दोक्तमनुवदन्ति इदं चेत्यादि । विभाजकं चेत्यर्थः । सामान्यलक्षणं चेति वार्यः । लक्षणफलमनुवदन्ति तेन पूर्वस्येत्यादि । इष्टसाधनत्वेनेति इदं स्नेहे वक्तव्यं इष्टसाधनत्वस्य कार्यकारणभावनात्मकत्वं कैश्चित्स्वीकृतं तन्मतं भवानन्दादावनू- दितं तत्राव्याप्तिः । नैयायिकैस्तत्र संगतित्वानङ्गीकारात् । नैयायिका इति अस्य 'ऋतू- क्यादिसूत्रान्ताट् ठक्' इति ठकि नैयायिका इत्येव । अतः परं पूर्वोक्तं संगतिसामान्यलक्ष- णमुपजीवकत्वे न संभवति किं प्रत्यक्षोपजीवकमिति जिज्ञासायानु