अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 303, कुल 2600 में से
संदर्भ में पढ़ें२१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० ४ सू० ४ भाष्यप्रकाशः । आहुः । वयं तु, सावधानपुरुषप्रयुज्यमानवाक्यप्रयोजकत्वेन स्मृतस्योपेक्षानर्हत्वमेव संगतिः । रश्मिः । संगतमित्यत्रोपेक्षानर्हमिति व्यवहारारम्भं वा लक्षणान्तरमाहुः वयं त्वित्यादि । इति रोच- यामह इति संबन्धः । प्रयुज्यत इति प्रयुज्यमानमुच्चार्यमाणमित्यर्थः । एतादृशवाक्यस्य प्रयो- जकं परंपरया कारणं यद्धेतुतादिस्तदवच्छेदकत्वेनानुमानवाक्यत्त्वादिना स्मृतिविषयोऽनुमानवा- क्यादिः । अवच्छेदकत्वं तृतीयार्थः । उपेक्षानर्हता च क्वचिद्धेतुतया क्वचिदुपोद्घातेनेत्येवं ज्ञेया । तथा च सावधानाभिन्नपुरुषकर्तृकप्रयोगकर्मभूतवाक्यनिरूपितप्रयोजकतावच्छेदकरूपेण कर्तृनिष्ठस्मृतिनिष्ठविषयतानिरूपितविषयताशालिवाक्यपदान्तरनिष्ठोपेक्षानर्हत्वं संगतिः । अत्रेदं हृदयम् । सावधानपुरुषप्रयुज्यमानं वाक्यमथातो ब्रह्मजिज्ञासेति तत्प्रयोजकं प्रकृतोपपादकत्वमस्य जातित्वविरहाद्धर्मत्वेन प्रकृतोपपादकरूपत्वात्तत्तावच्छेदकेन ब्रह्मभक्त्यादिविचारप्रतिज्ञावाक्यत्वेन स्मृतस्य ब्रह्मभक्त्यादिविचारप्रतिज्ञावाक्यस्योपेक्षानर्हत्वं संगतिः । १ बुद्धिस्थमेव सर्वोपि प्रयुङ्क्त इति दृष्ट