भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 320, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 320

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २३१ गौणश्चेन्नात्मशब्दात् ॥ ५ ॥ ईक्षत्यादियुक्तः परमात्मा गौणः प्रकृतिगुणसत्त्वसंबन्धवानिति चेन्न तथा वक्तुं न शक्यते । कुतः । आत्मशब्दात् । ‘आत्मा वा इदमेक एवाग्र आसीत्’ इत्युपक्रम्य, ‘स ऐक्षत’ इत्युक्तम् । आत्मशब्दः पुनः सर्वेषु वेदान्तेषु निर्गुणपरब्रह्मवाचकत्वेनैव सिद्धः । तस्यैव जगत्कर्तृत्वं श्रुतिराह । ननु चोक्त- मन्यतरबाधो युक्त इति । न युक्तः । स्वातन्त्र्याभावेन सगुणस्य कर्तृत्वायोगात् । वेदाश्च प्रमाणभूताः । ततः सर्वभवनसामर्थ्यमेव श्रुतिबललभ्यमङ्गीकर्तव्यम् । भाष्यप्रकाशः। गौणश्चेन्नात्मशब्दात् ॥ ५ ॥ अयुक्तत्वे हेतुमाहुः स्वातन्त्र्याभावेनेत्यादि । कारक- मात्रस्य स्वव्यापारं प्रति स्वातन्त्र्ये सत्यपि यत् कर्तृलक्षणतया स्वातन्त्र्यस्य कीर्तनं तत् कारकान्तर- नियामकतयैवातो गुणानामुपादानत्वे वा करणत्वे वाऽवश्यं कर्तृनियम्यतैव युक्ता, न तु प्रयोजकता । तथा सति तेषामेव सृष्ट्यादिकार्ये स्वातन्त्र्येण ब्रह्मनियामकतया सगुणस्य स्वातन्त्र्याभावेन कर्तृत्वा- योगादित्यर्थः । ननु गुणानां जडत्वेन चेतनाधीनत्वाच्च सगुणस्य स्वातन्त्र्यहानिरतो गुणसंबन्धि- न्येव कर्तृत्वं युक्तमित्यत आहुः वेदाश्चेत्यादि । अनपेक्षत्वाद्भगवन्निःश्वासरूपत्वाच्च वेदाः स्वतः प्रमाणभूताः । ते च, ‘सदेव सौम्येदमग्र आसीत्’, ‘आत्मा वा इदमेक एवाग्र आसीत्’ इत्या- दिषु विशेष्यान्वितेनैवकारेणेतरयोगं व्यवच्छिन्दन्तस्तदानीं केवलस्य शुद्धस्यैवात्मनः कर्तृ- त्वमावेदयन्ति । नच कालवाचकाग्रपदेन तत्सत्ताया अपि बोधनादेवकारो नान्ययोगव्यव- च्छेदक इति शङ्क्यम् । बोधनार्थमेव तथोक्तेः । कथमेतदितिचेदित्थम् । इयं हि श्रुतिः सर्वा- पेक्षया प्राथमिकं वृत्तान्तं वक्ति । तत्रैवकारेण सदितरयावद्वस्तुव्यवच्छेदे भिन्नविधप्रमाणान्त- रस्यापि व्यवच्छिन्नत्वात् तस्याप्यभावेनाग्रपदे प्रमाणान्तरसिद्धकालानुवादकतया वक्तुमशक्य- त्वेन, एतस्यैव वाक्यस्य कालसत्ताबोधकत्वे चात्मासीत् कालोऽप्यासीदित्येवं वाक्यभेदप्र- सङ्गेन कालसत्ताया अशक्यवचनत्वे केवलस्यात्मनोऽपि निरूपणमशक्यमिति वाक्यस्याबोधकत्वे प्रसक्ते सृष्ट्युत्तरव्यवहारानुसारेण सर्वाधारतया प्रतीयमानो यः कालस्तदुपरञ्जनेन पूर्ववृत्तान्तं वक्तीत्येवं बोधनार्थत्वं जानीहि । अत एव सृष्ट्युत्तरमपि केवलं ब्रह्मैवेति बोधनाय सोऽनु- वीक्ष्य नान्यदात्मनोऽपश्यदित्येवं श्रुत्यन्तरेऽप्युच्यते । एवं तदानीमितराभावे गुणानां सत्ता तदानीं वक्तुं न शक्यत इति न सगुणः कर्ता । नचोत्पत्तिशिष्टन्यायसोपजीव्यन्यायस्य वा रश्मिः। गौणश्चेन्नात्मशब्दात् ॥ ५ ॥ कीर्तनमिति ‘स्वतन्त्रः कर्ता’ इति सूत्रे कीर्तनमित्यर्थः । गुणानामिति प्राकृतानामित्यर्थः । निःश्वासेत्यादि व्यासादिभिरुच्चार्यमाणा वेदाः परंपरया निःश्वासा इति वक्तव्यम् । एवकारेणेत्यादि सदन्ययोगव्यवच्छेदवदिदमिति । एकान्य- योगव्यवच्छेदवानात्मेति च यथायथं बोधयतीत्यर्थः । नान्ययोगेत्यादि किंत्वयोगव्यवच्छेदक इति भावः । तथा च सत्तावच्छिन्न इदंत्वावच्छिन्नान्ययोगव्यवच्छेदवान् तथैकत्वावच्छिन्न आत्मायोगव्यव- च्छेदवानिति च बोधात्कालसत्तायामपि न क्षतिरिति भावः । वाक्यभेदेत्यादि वाक्यभेदस्य दोषत्वं गौरवप्रसञ्जकतया पौरुषेयत्वं वा दूषकताबीजं पुरुषाणां दोषत्वस्य संभावितत्वात् । ३० ब्र० सू० २* 231