अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 321, कुल 2600 में से
संदर्भ में पढ़ें२३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० ५ किंच । अस्तिभातिप्रियत्वादिधर्मवद्ब्रह्मगतकर्तृत्वं लोके प्रतीयते । कार्यत्वात् । तस्मादात्मशब्दप्रयोगाद् गुणातीतमेव कर्तृ ॥ ५ ॥ भाष्यप्रकाशः । प्रवृत्तिरत्र शङ्कनीया । विरुद्धधर्माधारत्वेन बाध्यबाधकभावाभावात् । ततः श्रुतिबललभ्यं, श्रुति- लिङ्गवाक्यप्रकरणस्थानसमाख्यारूपेषु षट्सु प्रमाणेषु श्रुतिबलसिद्धं ब्रह्मणः सर्वभवनसामर्थ्यमे- वाङ्गीकर्तव्यमित्यर्थः । ननु मास्त्वेवं कर्तृत्वादिबाधस्तथापि कर्तृत्वस्य लौकिकत्वं नापैतीति तत एव तद्बोधोऽ- स्त्वित्यत आहुः किंचेत्यादि । प्रियत्वादीत्यादिपदेनापहतपाप्मत्वसंग्रहः । तथाच ब्रह्मधर्मस्य रश्मिः । विरुद्धेत्यादि । साधनाध्यायद्वितीयपादे 'अम्बुवदग्रहणात्' इत्यधिकरणे वक्ष्यमाणेन विरुद्ध- धर्माधारत्वेन बाध्यबाधकभावाभावेन निर्गुणे धर्मप्रवेशस्य संभवेनोपजीव्यत्वादीनां सगुणप्रति- पादकास्वपि सत्त्वेन न न्यायप्रसर इत्यर्थः । ततः सर्वस्येत्यादि भाष्यं विवृण्वन्ति ततः श्रुतीत्यादि । तत्र 'निरपेक्षो रवः श्रुतिः' 'सामर्थ्यं सर्वभावानां लिङ्गमित्यभिधीयते' इति पदार्थे लिङ्गं 'समभिव्याहारो वाक्यम्' 'उभयाकाङ्क्षा प्रकरणम्' 'देशसामान्यं स्थानम्' समाख्या यौगिकः शब्दः तत्र यजेत इत्याद्या विधात्री श्रुतिः । व्रीह्यादिरूपा अभिधात्री विनियोक्त्री च । स यस्य शब्दस्य श्रवणमात्रेण संबन्धप्रत्ययः । सा च त्रिधा विभक्तिरूपा, एकाभिधानरूपा, एक- पदरूपा चेति । 'व्रीहिभिर्यजेत' इत्यत्र विभक्तिरूपया तृतीया श्रुत्या व्रीहीणां यागाङ्गत्वम् । पशुना यजेत इत्यत्रैकत्वपुंस्त्वयोः समानाभिधानरूपया श्रुत्याङ्गत्वम् । यजेत इत्याख्याताभि- हितसंख्याया भावनाङ्गत्वम् । समानाभिधानश्रुतेरेव पदश्रुत्या च यागाङ्गत्वं 'बर्हिर्देवसदनं दामि' इत्यस्य लवनाङ्गत्वल्लिङ्गेनायं मन्त्रो लवनं प्रकाशयितुं समर्थः । वाक्येन यस्य पर्णमयी जुहूर्भ- वतीत्यत्र पर्णताया जुह्वाङ्गत्वम् । साध्यत्वादिवाचकद्वितीयाद्यभावे वस्तुतः शेषशेषिणोः सहोच्चारण- रूपवाक्यसत्त्वात् । प्रकरणेन प्रयाजादिषु समिधो यजतीति । अग्रेष्टविशेषस्यादर्शनात्समिधा योगेन किमित्यस्त्युपकार्याकाङ्क्षा । दर्शपूर्णमासवाक्येपि दर्शपूर्णमासाभ्यां स्वर्गं भावयेत् कथ- मित्यस्त्युपकारकाकाङ्क्षा तया प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम् । स्थानेन यथासंख्यपाठरूपेण 'ऐन्द्राग्नमेकादशकपालं निर्वपेत् वैश्वानरं द्वादशकपालं निर्वपेत्' इत्येवं विहितेष्टिषु इन्द्राग्नी रोच- नादिव इत्यादीनां याज्यानुवाक्यामन्त्राणां यथासंख्यं प्रथमस्य प्रथमं द्वितीयस्य द्वितीयमित्येवं विनियोगाः संनिधिपाठरूपेण स्थानेन वैकृतानामङ्गानां प्राकृताङ्गाननुवादेन विहितानां विकृ- त्यर्थत्वम् । तेषां कैमर्थ्याकाङ्क्षायाः फलवद्विकृत्यपूर्वस्य भाव्यत्वेन संबन्धादेव पूरणात् । अनुष्ठानसादेश्यरूपेण स्थानेन पशुधर्मानामग्नीषोमीयार्थत्वं समाख्यया वैदिक्या होतृचमस इति होतृचमसभक्षणाङ्गत्वं लौकिक्याध्वर्यवसमाख्ययाध्वर्योस्तत्तत्पदार्थाङ्गत्वम् । एवेति लिङ्गा- दिषु प्रत्यक्षस्य विनियोजकस्य शब्दस्याभावात्ते श्रुतितो निर्बला इत्येवकारः । अत एव गार्हपत्य- मुपतिष्ठत इत्यत्र लिङ्गादैन्द्र्या इन्द्रोपस्थानार्थत्वं कल्प्यते । तावत्प्रत्यक्षया श्रुत्या गार्हपत्योपस्था- नार्थत्वं प्राप्यत इति दृश्यते मीमांसायाम् । अपैतीति अप आ एतीति पदच्छेदः तेन चात्र वृद्धिदोषः न पररूपं, वृद्धयनन्तरं तद्यास्तु । तथाचेति अस्तिभातिप्रियत्वाभयत्वेन- 232