अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 346, कुल 2600 में से
संदर्भ में पढ़ेंजानतामित्यादिति । अतो न परब्रह्मणोऽनुपास्यत्वाद्ध्येयत्वादिकं युक्तम् । यदपि परब्रह्मणः स्वतो नामाद्यभावसाधनाय विष्णुपुराणादिवाक्यमुपन्यस्तं तत्रापि कल्पनापदात् काल्पनिकनामा- दिनिवृत्तिरेवाभिप्रेता, न यावन्नामादिनिवृत्तिः । ‘ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ । ॐकारं प्रकृत्य ‘खं वाग्ज्ञो ब्रह्मणः साक्षाद्वाचकः परमात्मनः’ । ‘तस्य वाचकः प्रणवः’ इति गीता- श्रीभागवतपातञ्जलसूत्राणां विरोधात् । वाचकस्यैव नामत्वात् । एवं सिद्धे सदादिनामकत्वे, ‘नारायणः शिवो विष्णुः शंकरः परमेश्वरः । एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम्’ ॥ इति वाराहपुराणवाक्यात् , ‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते’ ॥ इत्यादिश्रुतिभ्यश्च नामान्तरस्वीकारेऽप्य