अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 347, कुल 2600 में से
संदर्भ में पढ़ेंवासुदेवस्य गणनाच्च । यत्पुनः, 'कृष्णस्तु भगवान् स्वयम्' इत्येतत्स्वयंपदस्य पुत्रवत् साक्षात् परमेश्वरांशः । ऋष्यादीनामंशांशिवचनादित्युकम् । तदप्यसंगतम् । भूभारहारकं कृष्णमंशेषूक्त्वा तदंशित्वेन पुमांसं चोक्त्वा ब्रह्माण्डात्मकपुंरूपताभ्रमवारणाय तुशब्दोक्तिपूर्वकं स्वयं भगवत्त्व- विधानस्याबोधात् । 'कृष्णमेन मवेहि त्वमात्मानमखिलात्मनाम्' इति, 'वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः' इत्यादिवाक्यानामप्यविचाराच्च । गीतायां तु 'परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे' ॥ इति वाक्यमपि प्रायो नावलोकितं, येन 'मत्तः परतरम्' इतिवाक्यस्य वामदेवव- च्छास्त्रदृष्ट्या ज्ञानिमुख्यवाक्यत्वेन गतिश्चिन्तिता । नहि परब्रह्मत्ववक्तार ऋषयः सर्वे भ्रान्ता येनैवं भगवदुक्ते गौणीं वृत्तिं ब्रह्मदृष्टिं च नावगच्छन्ति । तथा व्यक्तपरत्वेन गतिरप्यसंगतैव । अव्यक्त- स्याक्षरत्वेन भगवद्धामतयैव सिद्ध्या भगवतस्ततोऽपि परत्वात् । नच व्यवहार्यत्वान्नेश्वरत्वमिति युक्तम् । तस्य सूत्रव्याख्यान एवोपपादितत्वात् । यदपि मोक्षधर्मवाक्येन नारायणाङ्घ्रिभवत्वं 'प्राधान्यतो यानृष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः । आपीयतां कर्णकषायशोषाननुक्रमिष्ये त इमान् सुपेशान्' ॥ इत्युपक्रमः । 'सोयं तेभिहितस्तात भगवान् विश्वभावनः । समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत् ॥ इदं भागवतं नाम यन्मे भगवतोदितम् । संग्रहोग्यं विभूतीनां त्वमेतद्विपुलीकुरु' ॥ इत्युपसंहारः । अत्र पुरुषस्य भूम्न इत्यनेन भगवदवतारत्वमुपक्रमे । उपसंहारेपि भगवान् विश्वभावनः इत्यनेनै- तेषां भगवत्त्वं सिद्धति । प्रथमस्कन्धे तु 'एतन्नानावताराणां निधानं बीजमव्ययम्' इत्यनेन वक्ष्यमाणानामवताराणां मत्स्यादिरूपाणां पुरुषावतारे स्थानत्वमुद्गमहेतुत्वं चोक्तमिति पुरुषावतारत्व- मुपक्रमे उपसंहारे च 'एते चांशकलाः पुंसः' इत्यनेन पुंसो विराजोवतारत्वं सिद्धतीत्युभयेषां भेदः । तथा च लीलावतारा भूमपुरुषस्यान्ये पुरुषस्य । गणनाञ्चेति तथा चैक एव वासुदेवो नित्येश्वर इतरे तदंशा वासुदेवा इति भागः संमत इति भावः । अंशेष्विति । 'एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवानहरद्भरम्' ॥ इत्यनेन तेषूक्ता इत्यर्थः । पुमांसमिति 'एते चांशकला पुंसः कृष्णस्तु भगवान् स्वयम्' इत्यनेनेत्यर्थः । गौणीमिति आत्मीयवाचकत्वे स्वयमित्यत्र गौणी, पुत्रपितृगुणयोगाद्गौणी । सिद्धयेति 'अव्यक्तोक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम' ॥