अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 348, कुल 2600 में से
संदर्भ में पढ़ेंपरमेश्वरस्योक्तं, तत्र तु नारायणपदं यौगिकमेव । धातृपदविशेषितत्वात् । न तु रूढम् । अतो यत्र नारायणपदेन परमेश्वर उच्यते तत्र रूढ्यैवोच्यते यथा महोपनिषदि । तत्र हि 'एको ह वै नारायण आसीन्न ब्रह्मा न ईशानो नापो नाग्नीषोमौ' इत्यादिना ब्रह्मादिसर्वनिषेधेऽपामपि निषेधात् । स एकाकी नर एवेत्यनेन पुरुषाकारस्योक्ततया निराकारत्वस्यापि वारणात् । तस्य ध्यानान्तस्तस्य यन्नस्तोममुच्यते, तस्मिन् पुरुषाश्चतुर्दशाऽजायन्तैका कन्येति प्रस्तुत्य, दशेन्द्रियाणि मन एकादशं तेजो द्वादशमहंकारस्त्रयोदशः प्राणाश्चतुर्दश आत्मा पञ्चदशी बुद्धिरिति तेषां स्वरूपकथने तेजःपदेन महत्तत्त्वस्य गणितत्वात् । 'विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः । स्वतेजसाऽपिबत्तीव्रमप्रतर्क्यमपां तमः' ॥ इति पुराणे तस्य तेजोरूपत्वावगमात् । अतो यत्किंचिदेकदेशमालम्ब्य सकलशास्त्रविप्लावनं इत्यत्र सिद्धेत्यर्थः । तस्येति ब्रह्मणो व्यवहार्यत्वस्येत्यर्थः । यौगिकमेवेति पूर्वमीमांसा- कारिकास्थाचार्यैर्वेदान्ते योगमात्राङ्गीकारादेवेति । धातृपदेत्यादि 'धाता नारायणो विभुः' इति । नतु रूढमिति । ननु रूढेः स्वमतेऽभावादप्राप्ताया निषेधः कुत इति चेन्न । स्वमते शक्तिसंकोचलक्षणायाः रूढेः प्रस्थानरत्नाकरेऽङ्गीकारात् । तथा च न परमेश्वरभिन्ने नारायणपदं शक्तिसंकोचयुक्तमिति । रूढ्यैवेति अपां सत्यज्ञानानन्तेश्वरे संकोचः । अक्षरं नारं जीवसमूहः अयनं यस्येति न तत्राधोक्षजेऽब्घटितयोगः संभवतीत्येवकारः । नारमयनं यस्येति योगाभासं वदन्तो हेतुमाहुः यथेति । तेनाब्घटितविग्रहे रूढिरित्युक्तम् । ननु सर्वेषां शब्दानां परमेश्वरे योगोऽङ्गीकृतः प्रस्थानरत्नाकरे इति चेन्न वैष्णवबोधनपरत्वाद् ग्रन्थस्य । अपाम