अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 351, कुल 2600 में से
संदर्भ में पढ़ें२६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११ तत्राऽन्नान्नमयादितुल्यवचनात् सुखवाचकशब्दानामेव वचनाच्च संदेहः । आनन्दांशस्यैव कारणत्वेन ब्रह्मत्वप्रतिपादनार्थत्वात् तदभावे प्रपाठकवैयर्थ्यं च । फलस्य नैकव्यप्रतिपादनायात्मपदप्रयोगेण फलरूपेण जगत्कारणतामुक्त्वा भाष्यप्रकाशः। बोधयितुं तस्य जडत्वपरिहाराय विपश्चिद्ब्रह्मपदाभ्यां सर्वज्ञानन्दरूपं फलमृगुत्तरार्धे, सोऽश्नुते सर्वान् कामान् सहेत्यनेनोपपाद्य तस्य सर्वज्ञानन्दरूपस्य फलस्य निरूपणार्थं सर्वोऽपि प्रपाठक आरब्धः । तत्रर्चि साधनशेषस्य ज्ञेयब्रह्मणो लक्षणवाक्यादेव निःसंदिग्धं स्वरूपावगमात् फलस्य ब्रह्मत्वं प्रतिपादनीयम् । प्रतिज्ञावाक्ये परपदात् तस्य च श्रुत्युत्तरार्धेन विवरणे भिन्नविभक्तिभिन्नपद- वचनयोश्च कथनेन परपदार्थानिश्चयाद् ऋग्व्याख्यानरूपे प्रपाठकेऽवश्यं कारणत्वादिना ब्रह्मत्व- मुपपादनीयमित्यर्थः । एवं प्रपाठकार्थमुक्त्वा संदेहबीजमाहुः तत्राऽन्नमित्यादि । अन्नान्नान्नम- यादीति अन्नमयादीत्यर्थः । एवं संदेहमुपपाद्य प्रपाठकासंगतिमुपपादयन्ति आनन्दांशस्यैवेत्यादि। सदेव सोम्येति, 'स ऐक्षत लोकाम्नु सृजै' इत्यादिश्रुत्यन्तरे सच्चिदंशयोः कारणत्वस्य प्रतिपादितत्वेन तत्सहचरितस्यानन्दांशस्यापि तथात्वेन तस्यान्यत्र कारणत्वाकथनात् तदभावे कार्यानुसारिलक्षणस्याव्यापकत्वप्रसक्तेरत्र तस्यैव कारणत्वेन ब्रह्मत्वप्रतिपादनार्थत्वात् तदभावे तद्वैयर्थ्यमित्येवमसंगतिरित्यर्थः । ननु कारणतावाक्ये 'तस्माद्वा एतस्मादात्मनः' इत्यात्मपदादात्मा वा इदमेक एवेत्यादावि- वात्रापि चिदंशकारणताप्रतिपादनस्य संभवदुक्तिकत्वात् कथमत्रानन्दांशकारणताप्रतिपादनविनि- गमनेत्याकाङ्क्षायामात्मपदोक्ततात्पर्यं वदन्तस्तद्विनिगमकयुक्तिमाहुः फलस्येत्यादि । यथा मलय- रश्मिः । व्यापारकज्ञानरूपसाधनविषयत्वेनेत्यर्थः । फलस्येति परस्येत्यर्थः । भिन्नेत्यादि 'सत्यं ज्ञान- मनन्तं ब्रह्म यो वेद निहितं गुहायाम्' स इत्यनेन प्रतिज्ञावाक्यगतं ब्रह्मविदितिपदं विवृतम् । आप्नोति परमित्यस्य अश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति व्याख्यानं, तत्र परमित्यत्र द्वितीया विभक्तिः ।