अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 352, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३६३ तस्यैव मध्ये सर्वान्तरत्वं प्रतिपादितं 'तस्माद् वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्माऽऽनन्दमयः' इति । अन्ते च, 'एतमानन्दमयमात्मानमुपसंक्रामति' इति आदिमध्यरूपे अनूद्य फलत्वेनोपपादितम् । तन्निरूपकस्यापि तत्तुल्यफलत्वं वक्तुमन्नमयादीनामपि ब्रह्मत्वेनोपासनमुक्तम् । तत्र पूर्वपक्षेऽन्नमयादेरिवानन्दमयस्यापि न ब्रह्मत्वम् । अन्नमयादितुल्य- वचनात् तथैव फलसिद्धेरिति । एवं प्राप्तेऽभिधीयते । आनन्दमयोऽभ्यासात् ॥ ११ ॥ (१।१।५) आनन्दमयः परमात्मा, नान्नमयादिवत् पदार्थान्तरम् । कुतः । अभ्यासात् । भाष्यप्रकाशः जस्याभीष्टत्वेऽपि दूरत्वात् तदर्थं न पुरुषप्रवृत्तिस्तथात्र मा भूदिति तदर्थं फलस्य नैकट्यप्रतिपादना- यात्मपदप्रयोगेण तदेतत्पदाभ्यां सन्निहितपरामर्शात् फलरूपेण जगत्कारणतामुक्त्वा तस्यैवानन्दस्य मध्ये सर्वान्तरत्वमन्ते फलत्वं चानन्दमयपदाभ्यामुक्तम्। तेनादिमध्यावसानेषु कारणत्वसर्वान्त- रत्वफलत्वानि तत्रैव साधितानि । तथान्नमयादीनां ब्रह्मत्वेनोपासनकथनात् तदान्तरत्वनिरूपकाणां यदा तत्तुल्यं फलत्वं, तदाऽऽनन्दमयस्य सर्वान्तरस्य फलत्वं किं वाच्यमित्याशयेन फलत्वमेव दृढीकतृम् । तथाच यदि केवलमात्मपदमेव कारणताप्रतिपादकवाक्ये स्यात् तदा त्वदुक्तं स्यादपि । न त्विह तथा किंतु तदेतत्पदसमभिव्याहृतम् । तथा सत्यात्मपदं नैकट्यमेव बोधयति, नतु तेन रूपेण कारणताम् । सा च प्रतिपिपादयिषिते पर्यवस्यतीति संपूर्णवाक्यविचारादवसीयते । अतः पूर्वोक्ताः फलत्वादय एतद्विनिगमकयुक्तिरूपा इत्यर्थः । एवं विनिगमकमोचनेन परोक्तं प्रतिक्षिप्य प्रकृते पूर्वपक्षमाहुस्तत्रेत्यादि । तथैवेति ब्रह्मत्वेनोपासनेनैव । सूत्रं व्याकुर्वते अभिधीयत इत्यादि । आनन्दमयोभ्यासात् ॥ ११॥ ननु हेतुना साध्यसिद्धिव्र्याप्तिनिश्चये सति भवति। प्रकृते रश्मिः । रिति स्वरूपलक्षणप्रतिपादकानन्दकर्तृत्वप्रतिपादकप्रपाठकयोरसंगतिरित्यर्थः । तदर्थमिति प्रवृत्त्यर्थ- मित्यर्थः । तदेतदिति 'तस्माद्वा एतस्मादात्मनः' इतिश्रुतौ । फलरूपेणेति ब्रह्मविदाप्नोति परमिति सन्निहितश्रुत्युक्तेनेत्यर्थः । तस्येति विपश्चिद्ब्रह्मणः । इदं फलमत आहुरानन्दस्येति । आनन्द- मयपदाम्यामिति 'तस्माद्वा एतस्माद्विज्ञानमयादन्योन्तर आत्मानन्दमयः' 'एंतमानन्दमयमात्मा- नमुपसंक्रामति' इति श्रुतिद्वयघटकाभ्यामित्यर्थः । तन्निरूपकस्यापीत्यादिभाष्यं कैमुतिकन्यायेन व्याकुर्वन्ति तथान्नमयेत्यादि । एतद्विनिगमेत्यादि । 'तस्माद्वा एतस्मादात्मनः' इति श्रुतावात्मपदेनानन्दांशकारणताप्रतिपादनविनिगमेकेत्यर्थः । नन्वानन्दस्य कारणत्वेप्यक्षरानन्दस्य वक्तव्यम् । धर्मिणो भक्तैः सह निगूढभावकरणस्य दशमसुबोधिन्यामुक्तेस्तद्रूपानन्दस्य जगत्कारणता- भावादिति चेन्न । अदृश्यत्वाधिकरणोक्ताक्षरागेदमादायोपपत्तिसंभवात् । पुरुषविधब्राह्मणसान्त्र वक्तव्यत्वात्तत्र पञ्चसंख्याया अभावात् । अत एषापि सदानन्दस्य जगज्जन्मादिकर्त्री शक्तिरित्युक्तं द्वितीयस्कन्धनवमाध्याये । उपासनेति प्रायपाठादेवकारः। आनन्दमयोभ्यासात् ॥११॥ भाष्ये । अभ्यस्यत इत्यादि । एतेन विधेरविशेषेण पुनः श्रवणमभ्यासः इति शास्त्रदीपिकोक्तलक्षणं विधिपदरहितं युक्तं 'एकस्यैव पुनः श्रुतिरविशेषादनर्थकं ३४ ब्र० सू० २० 263