अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 353, कुल 2600 में से
संदर्भ में पढ़ें२६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११ अभ्यस्यते पुनः पुनः कीर्त्यत इत्यभ्यासस्तस्मात् । अभ्यासस्य भेदकत्वं पूर्वतन्त्र- सिद्धम् । यथा पूर्वतन्त्रे शब्दान्तराभ्याससंख्यागुणप्रक्रियानामधेयानां षण्णां भाष्यप्रकाशः। चाभ्यासत्वेन परमात्मबोधकत्वेन व्याप्त्यभावादसिद्धोऽयं हेतुरित्यत आहुः अभ्यासस्येत्यादि । पूर्वतन्त्रे हि, 'समिधो यजति,' 'तनूनपातं यजति,' 'इडो यजति,' 'बर्हिर्यजति,' 'स्वाहाकारं यजति' इति पञ्चकृत्वो यजत्यावृत्तौ मीमांसितं, किमत्र तनूनपादादिषु चतुर्षु पूर्वयागानुवाद उत यागान्तर- विधानमिति । तत्र पूर्वपक्षिणा धात्वर्थप्रत्यभिज्ञानादिडादिगुणविधानार्थं समिद्यागानुवादेऽङ्गीकृते सिद्धान्तितम् । भेदाभेदसाधारण्या यजिश्रुत्या यागमात्रप्रत्यभिज्ञानेन श्रुतेर्यागान्तरपक्षे तुल्यत्वाद् गुणविधानपक्षेऽपि चतुर्थीत्तद्धितयोरभावेन देवतायास्तृतीयाया अभावेन द्रव्यस्य च वक्तुमशक्यत्वाद् द्वितीयया चाग्निहोत्रं जुहोतीत्यादिवत् तेषां कर्मनामत्वनिश्चयात् पदान्तरसमभिव्याहृतेन यजतिना यागान्तरमेव बोध्यत इति । तथाच यत्र यत्र वाक्ये पदान्तरसमभिव्याहृतस्य यस्य पदस्याभ्यास- स्तत्र तत्र तस्य पदस्य पूर्वस्मादर्थान्तरगमकत्वमिति व्याप्तेः पूर्वस्मादर्थान्तरत्वेन परमात्मसाधनान्ना- सिद्धो हेतुरित्यर्थः । नन्वभ्यासस्य भेदकत्वमात्रं सिद्धम् । तस्य फलमितरभेदः सोऽत्र शब्दान्तरा- देव सिद्धो वाक्यान्तरसिद्धमसन्निहितमभ्यासं स्वलाभाय नापेक्षते । तथा सति कथं तेन परमात्मभावगतिरित्यत आहुः यथेत्यादि । तथाच शब्दान्तरेण सिद्धेऽपि भेदे वैलक्षण्यमभ्यासः साधयति । सिद्धाच्च वैलक्षण्यादन्नमयादिभ्य आनन्दमयस्यातुल्यत्वं सिद्ध्यति । तेन ब्रह्मात्मभाव- रश्मिः। हि स्यात्' इति सूत्रे विधिपदाश्रवणात् । अत एव विधिभिन्नस्याप्यविशेषेण पुनः श्रवणेऽभ्यासत्व- व्यवहार इति बोधितम् । प्रकृते । परमात्मेत्यादि । इदं चाधिकारसूत्राद् ब्रह्मेत्यनुवृत्तौ लभ्यते । तेन पक्षहेतुनिर्देशोपि सूत्रे न दोषाय । पूर्वतन्त्र इति द्वितीयस्य द्वितीयपादे 'एकस्यैवं पुनः श्रुतिरविशेषादनर्थकं हि स्यात्' इत्यधिकरण इत्यर्थः । पूर्वयागेति समिद्यागानुवाद इत्यर्थः । धात्वर्थेत्यादि । करणीभूतधात्वर्थभेदेपि शब्दैकत्वेनार्थैकत्वस्य दृढतरप्रत्यभिज्ञानादित्यर्थः । प्रत्य- भिज्ञानं च तत्तेदन्ताप्रकारकं ज्ञानं स एवायं यजतिरित्याकारकम् । इडादीत्यादि । अत्र तनून- पादादीत्यनूदितव्ये इडादीत्यनुवादः शास्त्रदीपिकादौ तनूनपादादीति पदमसंगतमिति ध्वनयति । तथाहि । तनूनपादादीत्यत्रातद्गुणसंविज्ञानो बहुव्रीहिः संभवति । अन्यपदार्थस्य संयोगसमवायाति- रिक्तसंबन्धेन संबन्धित्वात् । पञ्चानामपि यागानां भिन्नत्वात् । लक्ष्यतावच्छेदकस्य विशेष्यान्वय्य- न्वयित्वाभावात् । नैयायिक लक्षणस्याप्यसमन्वयात् । तथा च चतुर्णां यागानां संग्रहायेडादीत्येव वक्तव्यम् । आदि चेद् चेडादी 'अल्पाच्तरं पूर्वम्' इतीडः पूर्वनिपातः । इड् आदिर्ययोरित्यतद्गुण- संविज्ञानो बहुव्रीहिः । इडादी च इडादी चेडादय इत्येकशेषः । तथा चेडादीनां तनूनपादिड्बर्हिः- स्वाहाकाराणां देवतारूपाणां द्रव्यरूपाणां वा गुणानां विधानार्थमित्यर्थः । चतुर्थीत्यादि अग्नये जुष्टं निर्वपामि, आग्नेयोष्टाकपालः, इतिवत् । तृतीयाया इति दध्ना जुहोतीतिवत् । इतर भेद इति यथा पृथिव्या भेदकस्य गन्धवत्त्वस्य जलादिभेदसाधकत्वाजलादिभेदः फलं तद्वदित्यर्थः । शब्दान्तरादिति द्वितीयस्य द्वितीयपादे 'शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्' इत्यधिकरणे सोमेन यजेत हिरण्यमात्रेयाय ददाति दाक्षिणानि जुहोति इत्यत्र यजत्यादीनां शब्दान्तरत्वात् कर्मभेदकत्वमिति चिन्तितम् । शब्दान्तरादप्यन्नमयादिशब्दान्तरादेवेतरभेदः सिद्धः किमभ्यासेनेत्यर्थः । तथा चानन्दमयः शब्दान्तरादिति 264