भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 358, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 358

अन्यथा जीवस्य साधनफले निरूपयन्त्याः श्रुतेर्जीवपरत्वमेव स्यान्न ब्रह्मपरत्वम् । कर्मब्रह्मणोरपि जीवशेषत्वं नापेयात् । एवं सति पूर्वकाण्डेऽवान्तरफलान्युक्त्वा 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इतिश्रुतेर्निरवध्यानन्दात्मकमेव परमं फलमिति तद्विवक्षमाणा पूर्वं सामान्यत आह, ससाधनं तैत्तिरीये 'ब्रह्मविदाप्नोति परम्' इति । अक्षरब्रह्मवित् परं ब्रह्माप्नोतीत्यर्थः । अत्र परशब्दस्य पूर्वपरत्वे तदित्येव भवेत् ।

भाष्यप्रकाशः । द्वितीयस्कन्धे उक्तार्थस्यैवोपबृंहणात् क्रीडनमेव प्रतिपाद्यत इत्यर्थः । तेन सृष्टीच्छा क्रीडेच्छा- रूपैवेति निर्णायोक्तोपबृंहणेऽन्यस्याप्यर्थस्य संभवदुक्तिकत्वात् तदनुक्त्वा विपक्षे बाधकं तर्कमेवाहुः अन्यथेत्यादि । अन्यथेति भगवतः सर्वरूपत्वाभावे । नापेयादिति पारार्थ्यरूप- शेषलक्षणस्य फलद्वारा तत्र सत्