भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 359, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 359

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति सटीक लिप्यन्तरण है:

२७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११ पूर्वं ब्रह्मोक्तस्यान्ये यत् परमित्याह तेन सान्निध्यात् तत एव परं पुरुषोत्तमरूप- मेवात्राभिप्रेतमिति ज्ञायते । किंच प्रतिपादिना तदाप्तिर्ज्ञानात्मिकैव वाच्या । तथा सति ब्रह्मप्राप्तो ब्रह्म प्राप्नोतीत्यर्थः स्यात् । स चासंगतः । साधनसाध्यभावव्याहतिश्च । भाष्यप्रकाशः । सत्यज्ञानाद्युक्तत्वमिति परस्य लक्षणमप्युक्तप्रायम् । तद्योक्तत्वमानन्दमीमांसोत्तरं, 'यतो वाचः' इति श्लोके गणनापरिच्छेदराहितानाङ्मनसगोचरानन्दरूपत्वेन सिद्धं भविष्यति । ननु 'सर्वं ब्रह्म' इतिवित् परं ब्रह्मामोतीत्यर्थोक्तौ न कोऽपि दोष इत्यत आहुः किंचेत्यादि । असंगत इति पुनरुक्तिदोषादसङ्गतः। नन्वत्र व्याख्यानव्याख्येयभाव एव संगतिरिति चेत् तत्राहुः साधनेत्यादि । नच शाब्दज्ञानवान् परं साक्षात्काररूपं ज्ञानमामोतीत्युक्तौ न दोष इति वाच्यं प्रत्यक्षविरोधात् । नच साधनान्तरासमवधानाददोष इति वाच्यम् । तस्यात्रानभिप्रेतत्वात् । अनुपदेशेन तथाव- रश्मिः। आत्मानन्दमयः' इति विषयवाक्यस्य पूर्वाङ्गमित्यर्थः । प्रतीक मित्यावयवमित्यर्थः । भविष्य- तीति जनन्तपदार्थनिरूपणे भविष्यतीत्यर्थः । यद्वा एकप्रक्रमपठितत्वेन भविष्यतीत्यर्थः । वस्तुतस्तु निरवध्यानन्दत्वमेव लक्षणम् । सत्यज्ञानानन्तविपश्चित्त्वं वा लक्षणमेकश्रुत्युपपादितत्वात् । प्रकटबिंबत्वेन न सूर्येऽतिव्याप्तिः सत्यानन्तयोरच्छङ्गलत्वात् । परे तु त्रयं प्रकटमिति । प्रकटमिति लक्षणे विशेषणम् । निरवधिसत्यज्ञानत्वे सतीति विशेषणाभावे शृङ्गाररसेतिव्याप्तिः स्वमतहानिश्च 'सत्यं परं धीमहि' इति 'सत्यव्रतं सत्यपरम्' इति च । 'आत्ममायासृते राजन् परस्यानुभवात्मनः । न घटेतार्थसंबन्धः स्वप्नद्रष्टुरिवाञ्जसा' ॥ इति च । अर्थसंबन्धो देहसंबन्धः । विशेष्याभावे ब्रह्मज्ञानमेव भवेत् । अधोक्षजत्वेन निरवध्यानन्द- द्वारा तज्ज्ञानात् । 'आनन्दं ब्रह्मणो विद्वान्' इति श्रुतेः । अक्षरेतिव्याप्तिवारणाय निरवधीति । शांकरोपनिषद्भाष्योक्तार्थ वदन्त आशङ्कामाहुः नन्वित्यादि । सर्वं ब्रह्मेत्युपासकः परं ब्रह्माप्नोति इत्यर्थोक्तावित्यर्थः । न कोपीति यद्यपि प्राप्यस्य ब्रह्मणः उपासकाद्भिन्नत्वेन भवनमुक्तं तथापि मात्रवर्णिकं ब्रह्म जीवाद्ब्रह्मातिरिक्तं नापि तु तस्यैवोपासकस्याविद्यालेषशून्यं निर्विशेषचिन्मात्रैकर- स्वरूपं तदेव 'सत्यं ज्ञानमनन्तं ब्रह्म' इति मन्त्रेणोच्यते । अग्रे 'यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह' इत्यनेन वाङ्मनसयोरगोचरत्वसोक्तेरिति दोषोपि नेति न कोपि दोष इत्यर्थः । व्याख्यान- व्याख्येयेति । तथा चोपनिषद्भाष्यं ब्रह्मविदिति ब्रह्म वेद ब्रह्मैवेति वक्ष्यमाणलक्षणं बृहत्तमत्वात् ब्रह्म तद्वेत्तीति ब्रह्मविदाप्नोति परं निरतिशयं तदेव ब्रह्म परं नह्यान्यस्य विज्ञानादन्यस्य प्राप्तिरिति । साधनेत्यादीति 'धर्मादिष्वनियमः' इत्यनेन 'अल्पाच्तरं पूर्वम्' इत्यस्य बाधादेवं प्रयोगः । धर्मादिशाकृतित्वनः । ब्रह्मज्ञानं साधनं पराप्तिः साध्या सापि ज्ञानात्मिकेत्येकस्य साधन- साध्यभावव्याहृतिरित्यर्थः । व्याख्यानव्याख्येयभावेपि तन्मतेन साधनसाध्यभावमाशङ्क्य निषेधन्ति न च शाब्देत्यादि । प्रत्यक्षति शाब्दपरोक्षापत्त्या तथा । साधनान्तरेति संन्यासयोगरूप- साधनान्तरासमवधानात् । अत्रेति श्रुतावित्यर्थः । अनभीत्यादि छान्दोग्ये आत्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्येति गार्हस्थ्यलिङ्गाद्वेदान्तविज्ञानसुनिश्चितार्थानां पुंसां तदनिषेधे शुक्लमार्गा भवलोके 270