अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 360, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २७१ अतः परं विशेषतस्तद्विवक्षमाणाऽनुभवैकगम्यं तत्स्वरूपं नान्यमानगम्य- मिति ज्ञापयितुमन्यमुखेनाह 'तदेषाऽभ्युक्ता' इति । अन्यथा सर्वार्थतत्त्वप्रति- पादिका श्रुतिरेवं कथं वदेत् । तदित्यव्ययम् । तथाच तत् पूर्वोक्तं ब्रह्मविदः परमाप्तिलक्षणमर्थं विशदतया प्रतिपाद्यत्वेनाभिमुखीस्कृत्योपगुह्य ऋगेषा विवित- परब्रह्मकैरुक्ता । पूर्ववाक्योक्तार्थस्य वैशद्यमनया क्रियत इत्यर्थः संपद्यते । भाष्यप्रकाशः। शायात् । 'यमेवैषः' इति श्रुत्या साक्षात्कारस्य वरणेतरसाधनानधीनत्वाच्च । साधनान्तरकल्पनायामपि पूर्वोक्तरीत्या परश्शब्दवैयर्थ्याच्च । अत उक्तविधस्यैवार्थस्यात्र संक्षेपत उक्तिरेवेति निश्चयः । एवं सामान्यत उक्तिं तथैव व्याख्याय विशेषतो व्याख्यातुं सामान्यविशेषभावे गमकाकाङ्क्षायां व्याख्यानव्याख्येयभाव एव गमक इत्याशयेनाहुः अतः परमित्यादि । अन्यथेति व्याख्यान- त्वाभावे, परस्य तत्राप्तेश्चानुभवैकवेद्यत्वाभावे च । एवमिति अन्यमुखेन । अव्ययमिति हेतूपञ्चम्यन्तमव्ययम् । श्रुतिव्याख्यानगतं तत्पदं स्वार्थाध्याहृतमर्थविशेषणत्वाय वाऽव्ययमित्यु- रश्मिः। परासृताद्धिरण्यगर्भमोक्षात् मोक्षानापत्तेः । तथा सति 'न स पुनरावर्तते' इति छान्दोग्यविरोध इति तया । भाष्ये । काण्डद्वयेपीत्यादिना गृहस्थाधिकारस्य पूर्वकाण्डसिद्धस्यापि संग्रहात् । परमहंसयतीनां तु गार्हस्थ्यमपि प्राप्तं चेत् पारिभाषिकसंन्यासो गृहस्थानां यथा । 'काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः' इत्यादि गीतायाः । अत्र हेतुमाहुः अनुपदेशेनेति 'वेदान्तविज्ञानसुनिश्चितार्थाः' इत्यत्रोक्तगार्ह- स्थ्यस्य तैत्तिरीयेऽनुपदेशेन तथा साधनान्तरत्वाभावनिश्चयात् । अनुपदेशेप्यपेक्षितोपसंहार एकवाक्य- तयोचित एवेत्यत आहुः यमेवेति । वरणेतरत्यादि प्रमेयबलमेवैतत् । वरणं वैदिकमनुग्रहो वेदान्तः । नन्वस्तु तत्र तथापरमत्र तु ब्रह्मविदिति साधनोपदेशेन भक्तिरूपसाधनत्वव्यापारत्वेन निवेशस्यावश्यकत्वाद्ब्रह्मविद्वेदान्तविज्ञानसुनिश्चितार्थिनां संन्यासयोगाच्छुद्धसत्त्वानां प्राक्तन्यात् तद्वत्का- ण्डद्वयेपीत्यादिभाष्यादसद्भाभिरपि साधनान्तरं कल्प्यत इत्यत आहुः साधनान्तरेत्यादि । पूर्वेति अत्रैव पूर्वोक्तरीत्या चेति । अत्र व्यवहारे भाट्टत्वाभावेन निहितं गुहायामित्यत्रार्थे ब्रह्मणोभूते एकीभवतीत्युक्तं स्यात् न तु परमे व्योमन्नित्यादिरुपनिबद्धः स्यात् । अतः स्वमते पुष्टिमर्यादामक्तफलं वक्तीति युक्तम्। 'ब्रह्मविद्ब्रह्मैव भवति' इत्यत्र ज्ञानफलमिति चकारार्थः। अत उक्तेति माष्टवदर्थवादत्वा- भावादक्षरब्रह्मविदः पूर्णानन्दप्राप्त्युपदेशरूपस्यैवेत्यर्थः । ब्रह्मविद्ब्रह्मैव भवतीति श्रुतेर्ज्ञानमार्गस्य सावकाशत्वाद्भक्तिमार्गस्य निरवकाशत्वादेवकारः । अत्रेति ब्रह्मविदाप्नोति परमितिमात्रे । उक्तिरेवेत्ये- वकारेण व्याख्यानत्वव्यवच्छेदः । निश्चय इति । शब्दादपरोक्षस्य सर्वनिर्णये मर्यादाभङ्ग एव स्यादित्यादिना दूषितत्वादितोषिकाकाङ्क्षिणा स द्रष्टव्यः । सामान्यविशेषेत्यादि तदेषाभ्युक्तेति श्रुतेरित्यर्थः । एवेति एवकारोप्यर्थकस्तेन तदेषाभ्युक्तेति श्रुतेरपि सामान्यविशेषभावे गमकत्वं द्रष्टव्यम् । अन्येत्यादि विदितपरब्रह्ममुखेनेत्यर्थः । यद्यपि श्रुतं नारदमुखादित्यन्यमतत्वं संभाव्यते तथापि पुरुषविधब्राह्मणवत्तद्वा एतद्विदितं मीमांसितमिति श्रुत्यायमर्थः साधुः । श्रुत्यर्थस्तु एतदित्यस्य यथोक्त- कर्मेणामवश्यकर्तव्यत्वं, विदितमित्यस्य भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञ ऋषियज्ञश्चेति पञ्चमहायज्ञप्रकरणे विदितं विज्ञातमित्यर्थः । भाष्ये । तत्पदं द्वितीयान्तत्वेन व्याख्यातं तत्तात्पर्यमाहुः श्रुतिव्याख्यानेत्यादि । अध्याहारदोषादाहुः अर्थेत्यादि । अर्थशब्दस्य नियतपुंल्लिङ्गत्वादिति ३५ ब्र० सू० १० 271