अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 361, कुल 2600 में से
संदर्भ में पढ़ें२७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११ तामेवाह । 'सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' । सोपपत्तिकमानन्दात्मकत्वमग्रे निरूपणीयमित्यधुना तदनिरूप्य सचिदंशौ देशकालापरिच्छिन्नत्वं चोक्तवती । अथवा, अक्षरब्रह्मण्यानन्दात्मकत्वे सत्यपि तस्य परिच्छिन्नत्वान्न परम- फलत्वमत आनन्देऽपरिच्छिन्नत्वमेव परमफलतावच्छेदकमिति तद्धर्मपुरःसरं भाष्यप्रकाशः । क्तम् । तथाच संपूर्णा ऋक् फलांशविवरणार्थैवेति संपद्यत इत्यर्थः । तामित्यादिना ऋचं पठित्वा व्याकुर्वन्ति सोपपत्तिकमित्यादि । एवमग्रे फलनिरूपणावसरे निरूपणीयमित्यधुना साधननिरूपणावसरे सोपपत्तिकमनिरूप्य सत्यज्ञानपदाभ्यां सचिदंशावनन्तपदेन देशकाला- परिच्छिन्नत्वं च ज्ञेयस्य ब्रह्मणः साधनशेषत्वायोक्तवतीत्यर्थः । एवं पूर्ववर्णकस्य ज्ञेयांशे कारणतायानन्दांशमप्रवेश्येत्यस्य संग्रहार्थ तदाशयो विशदीकृतः । तेन ब्रह्मत्वे तुल्येऽपि क्षरस्य देशकालापरिच्छिन्नत्वाभावान्न विवक्षितफलसाधनशेषत्वम् । अक्षरस्य तु तदपरिच्छिन्नत्वात् तादृशसाधनशेषत्वमिति बीजं प्रकाशितम् । अतः परं प्रस्तूयमानवर्णकरीत्या विवक्षितफलविवरणार्थमन्त्रानन्दांशप्रवेशं वक्तुमनन्त- शब्दस्यार्थान्तरमाहुः अथवेत्यादि । परिच्छिन्नत्वादिति गणनया परिच्छिन्नत्वात् । एवमग्र रश्मिः । भावः । तथा च तदिति तं द्वितीयान्तं न पञ्चम्यन्तमस्मिन् पक्षे । भाष्ये । विदितपरब्रह्मकैरिति 'तासां मे पौरुषी प्रिया' इति पुराणद्वारा पुरुषविधब्राह्मणाङ्गीकर्तृभिः स्वस्या अक्षरं ब्रह्म परमं स्थानमिति स्वोक्तैरित्यर्थः । तेन यदध्येतृभिरिति परैरुक्तं तदसंभवि । अध्येतॄणामसामर्थ्यादिति बोधितम् । प्रकृते । फलांशेत्यादि फलं चांशश्च फलांशौ तयोर्विवरणार्थैवेत्यर्थः । यद्यप्याह ससाधनमित्यस्य पूर्ववाक्योक्तार्थस्य वैशद्यमनया क्रियते इत्यस्य च भाष्यस्य विरोधः स्यात् तथाप्यनुभवैकगम्यं तत्स्वरूप- मित्याभाभासभाष्यानुसारेणाह ससाधनमिति । पूर्वोक्तस्य भाष्यस्य अथवेत्यादिवक्ष्यमाण- द्वितीयपक्षानुमानाभासत्वं पूर्ववाक्योक्तार्थस्येति भाष्यस्य फलांशप्रतिपादकत्वस्येत्यर्थः । इत्यविरोधः । सन्निधानमेव तत्स्वरूपमिति 'आदित्यादिमतयश्चाङ्ग उपपत्तेः' इति सूत्रभाष्ये तु द्वितीयपक्षानुसारी नेति । तामित्यादि अत्र कर्ता भगवान् 'वेदान्तकृत् वेदविदेव चाहम्' इति स्मृतेः । साधनेत्यादि फलांशे निरूपणीये साधनत्वेनाधिष्ठानरूपसाधनत्वेन स्वरूपे प्रतीत साधनं तस्य निरूपणावसर इत्यर्थः । फलांशनिरूपणे साधननिरूपणमन्यथाऽसंगतं स्यात् । एवमेव ज्ञेयस्येत्यादिकं स्वरूपे प्रतीत ग्राह्यम् । एवं पूर्वेत्यादि फक्किकातात्पर्यं तु ज्ञेयम् । पूर्ववर्णके ब्रह्मविदाप्नोतीत्यस्य विषयवाक्यत्वाभावात् । तथाहि । ननु फलांशे वर्णनीयानन्दाप्रवेशो नैव युज्यते यतः आनन्दत्वेन फलत्वमिति चेत्तत्राहुः एवं पूर्वेति । पूर्वोक्तप्रकारेण पूर्वं वर्णकं यस्य भाष्ये वक्ष्यमाणवर्णकस्य द्वितीयस्य तत्त्वस्येत्यादिरतः फलशेष्यदुष्टो निरानन्दपक्ष इति । तदाशय इति शंकरमतमपाकर्तुं निरानन्दपक्षो ज्ञानमार्गे इति तथेत्यर्थः । तुल्येऽपीति क्षरस्य सत्त्वेन ब्रह्मत्वमक्षरस्य तु चित्त्वेनेति तयोरंशत्वात्तुल्येपीत्यर्थः । तदपरिच्छिन्नत्वादिति अक्षरात्मकेऽपरिच्छिन्ने सत्येव हृदि परस्यापरिच्छिन्नस्य प्रादुर्भावात्तथेत्यर्थः । फलविवरणार्थमिति आप्नोति परिमितेतावत्फलस्य सत्यमित्यादिनैव विवरणार्थमित्यर्थः । गणनयेति 'ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः' इति श्रुतेः । परिच्छिन्नत्वादिति । 272