अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 366, कुल 2600 में से
संदर्भ में पढ़ें'भक्त्याऽहमेकया ग्राह्यः' 'नाहं वेदैः' इत्युपक्रम्य, 'भक्त्या त्वनन्यया शक्यः' इत्यादिविस्तृतिरप्येवमेव संगच्छते। अन्यथा ज्ञानमार्गीणामपि ब्रह्मविदां परप्राप्तिः स्यान्न त्वेवम् । 'मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह' ॥ भाष्यप्रकाशः। तद्गमकत्वमिति हृदयम् । ननु वरणपदार्थो लक्षणया ज्ञानात्मको ग्राह्यो न तु रूढोऽङ्गीकारात्मक इति नात्र भक्तिनिवेशे किंचिद् बीजं पश्याम इत्याशङ्कायां स्मृत्या श्लोकावुपष्टभ्नन्ति भक्त्येत्यादि । एवमेवेति वरणपदस्याङ्गीकारपरत्व एव । विपक्षे बाधकं तर्कमाहुः अन्यथेत्यादि । न त्वेवमिति न ज्ञानमार्गीणां विवक्षितलक्षणा पर